________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४ वेदान्तलारे
(म.३. म्य वागाचेकैकापक्रमणे अन्येषां सप्राणानामिन्द्रियाणां शरीरस्य च स्थितिं तत्तत्कार्य चाविकलं प्रतिपाद्य प्राणोत्क्रमणे सर्वेषां विशरणमकार्यकरत्वं चाभिधाय सर्वेषां प्राणाधीनस्थितित्वतदधीनकार्यत्वाभ्यां प्राणस्य ज्यैष्ठयमुपपादितम् । एवमुपपादितं वागादिकार्यस्य प्राणाधीनत्वम् १" अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसि" इत्यादिना वागादिभिरनूयते । कौषीतकिनां प्राणवियायामपि प्राणज्यैष्ठयत्रैष्ठथप्रतिपादनाय वागादिषु वसिष्ठत्वादयः प्रतिपादिताः । २“अथ हेमा देवताः प्रजापतिं पितरमेत्याब्रुवन् को वै नः श्रेष्ठः" इत्यादिना वागादिगता गुणा वागादयश्च देहश्च प्राणधीना इति प्राणस्य ज्यैष्ठयमुपपादितम् । वागादिभिः स्वस्वगुणानां वसिष्ठत्वादीनां प्राणाधीनत्वानुवादमावं तु न कृतम् । नैतावता रूपभेदः, वागादीनां वसिष्ठत्वादिगुणान्वितानां प्राणाधीनकार्यत्वोपपादनेनैव प्राणस्य वागादिवसिष्ठत्वादिगुणहेतुस्वस्य सिद्धत्वात् । तदेव हि प्राणस्य वसिष्ठत्वादिगुणयोगित्वम् ; यद्वागादिवसिष्ठत्वादिहेतुत्वम्। अतोऽत्रापि वसिष्ठत्वादिगुणयोगात्माणो ज्येछः प्रतिपन्न इति नास्ति विद्याभेदः ॥ १० ॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वाभेदाधिकरणम् ॥ ३ ॥
वेदान्तसारे-सर्वाभेदादन्यत्रेमे ॥ ३'यो ह वै ज्येष्ठ श्रेष्ठच वे. द.. प्राणो वा व ज्यष्ठश्च श्रेष्ठश्च" इति वाजिनां छन्दोगानां कौषीतकिनाश प्राणविद्यायां वागादिकरणग्रामस्थितेः तत्कार्यस्य च प्राणहेतुकत्वेन तिसृप्वप्येकरूपेण प्राणज्यैप्ठ्यमुपपादितम् वागादिगतवसिष्ठत्वादिसम्बन्धित्वमपि प्रा. णस्योभयत्रोक्तम् ; कौषीतकिनान्तु तन्नोक्तम् तथाऽपि सर्वत्र ज्यैप्ठ्योपपादनप्रकारस्य सर्वस्याभेदाद्विद्यैक्यमिति कौषीतकिप्राणविद्यायामपि वसिष्ठत्वादय उपसंहार्याः ॥१०॥
इति वेदान्तसारे सर्वाभेदाधिकरणम् ॥ ३॥
१. छा, ५-१-१३ ॥-२.
-३. छा. ५-१-१॥
For Private And Personal Use Only