SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ••- (श्रीशाररिकमीमांसाभाष्ये सर्वाभेदाधिकरणम् ॥ ३ ॥ -- सर्वाभेदादन्यत्रेमे । ३ । ३ । १० ॥ छान्दोग्यवाजसनेयकयोः प्राणविद्या आम्नायते १ “यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठव ह वै श्रेष्ठश्च भवति प्राणो वा व ज्येष्ठश्व श्रेष्ठश्व" इत्यादि । तत्र ज्यैष्ठ्यत्रैष्ठयगुणकं प्राणमुपास्यं प्रतिपाद्य वाक्चक्षुश्श्रोत्रमनस्तु वसिष्ठत्वप्रतिष्ठात्वसम्पत्वा यतनत्वाख्यान् गुणान् प्रतिपाद्य बागादीनां देहस्य च प्राणायत्तस्थितित्वेन तदायस तत्तत्कार्यत्वेन च प्राणस्य श्रैष्ठयं प्रतिपाद्य वागादिसम्बन्धितया श्रुतान्वसिष्ठत्वादीन् गुणांश्च प्राणसम्बन्धितया प्रतिपादयति । एवं छान्दोग्यवाजसनेयकयो ज्यैष्ठयश्रेष्ठयगुणको वसिष्ठत्वादिगुणकच प्राण उपास्यः प्रतिपाद्यते । कौषीतकिनां तु प्राणविद्यायां तथैव ज्यैष्ठय श्रेष्ठयगुणकः प्राण उपास्यः प्रतिपादितः ; न पुनर्वसिष्ठत्वादयो वागादिसम्बन्धिनो गुणाः प्राणसम्बन्धितया प्रतिपादिताः । तत्र संशयः - किमत्र विद्या भिद्यते, उत नेति । किं युक्तम् भिद्यत इति । कुतः । रूपभेदात् । यद्यप्युभयत्र प्राण एव जैष्ठ्यत्रैष्ठयगुणक उपास्यः ; तथाप्येकत्र वसिष्ठत्वादिभिरपि गुणैर्युक्तः प्राण उपास्यः प्रतीयते ; इतरत्र तु तद्विधुर इत्युपास्यरूपभेदाद्विद्या भेदः- ( सिद्धान्त: · इति प्राप्ते ब्रूमः - सर्वाभेदादन्यलेमे-नाल विद्याभेदः, अन्यत्र कौपीतकिनां प्राणविद्यायामपि इमे - वसिष्ठत्वादयो गुणा उपास्यास्सन्ति; कुतः ? सर्वाभेदात्- प्रतिज्ञातप्राणज्यैष्ठयत्रैष्ठयोपपादनप्रकारस्य सर्वस्य तत्राप्यभेदात् । तथाहि - छन्दोगवाजसनेयिनां प्राणविद्यायाम् २" एता ह वै देवता अहंश्रेयसे व्यूदिरे " ३" अहंश्रेयसे विवदमानाः" इति चोपऋ १. छा. ५-१-१ ॥२. छा. ५-१-६ ॥ - ३. दु. ८-१-७ ॥ *35 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy