________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७२
वेदान्तदीपे
[म. ३.
थमुपासाञ्चक्रिरे” १'' अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उद्गायत्" इत्येकत्रोद्गीथे प्राणदृष्टिशब्दात्, इतरत्रोद्वातरि प्राणदृष्टिशब्दाच्च, रूपान्यथात्वमितिचेत्-न रूपभेदः कुतः ? अविशेषात् -- उपक्रमे ह्यविशेषेण २ 'उद्गीथेनात्ययाम" ३ "उद्गीथमा जहरनेनैनानभिहनिष्यामः" इत्युद्गीथस्यैवोपास्यत्वप्रतीतेः । ४" त्वं न उद्द्वायेति तथेति तेभ्य एष प्राण उदगायत् " इति कर्मण्येवोद्गीथे कर्तृत्वमुपचर्यत इति युक्तम् ; अन्यथोपक्रमविरोध स्स्यात् ॥
Acharya Shri Kailassagarsuri Gyanmandir
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् । नचैतदस्ति - यद्रूपैक्याद्विद्यैक्यमिति; कुतः ? प्रकरणभेदात्-छान्दोग्येहि ५" ओमित्येतदक्षरमुद्गीथमुपासीत" इत्युद्गीथावयवभूतं प्रणवमुपास्यं प्रकृत्य, ३ " उद्गीथमाजहुः” इति वचनादुद्गीथावयवभूतः प्रणव एवोद्गीथशब्देनोच्यत इत्यवगम्यते; वाजसनेयके स्वविशेषेण २ 'उद्गीथेनात्ययाम" इत्युपक्रमात् कृत्स्नोद्गीथ उपास्यः प्रकृतः; अत उद्गीथे प्राणदृष्ट्यविशेषेऽपि रूपभेदाद्विद्याभेदः । परोवरीयस्त्वादिवत् - यथैकस्यामपि शाखायाम् उद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मयपुरुषदृष्टिविधानात्परोवरीय स्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरमि - ति रूपभेदः; तद्वदत्रापि । एवं प्रकरणभेदेनोपक्रम एवैकत्रोद्गीथावयवविषयत्वेनान्यत्र कृत्स्नोद्गीथविषयत्वेन चोपासनभेदे सिद्धे सत्युपसंहारस्थं कर्मविषयं कर्तृविषयं च प्राणदृष्टिविधानं यथाश्रुतमवतिष्ठत इत्यभिप्रायः ॥ ७ ॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ उद्गीथविद्येति संक्यात् तत् वि धेयैक्यमुक्तं चेत् तत् संज्ञैक्यं विधेयभेदेऽपि अस्ति तु अस्त्येवेत्यर्थः ; यथा नित्याग्निहोत्रे, कुण्डपायिनामयनाग्निहोत्रेच; यथाच छान्दोग्ये प्रथमप्रपाठकोदितासुबह्रीषु विद्यासुद्गीथविद्येति संज्ञक्यम् ॥ ८ ॥
-
व्याप्तेश्च समञ्जसम् || प्रथमप्रपाठके उपक्रमवदुत्तर स्वप्युद्गीथविद्या. सुनीथावयवस्य प्रणवस्यैवोपास्यत्वव्याप्तेर्मध्यगतस्य ३" तद्ध देवा उद्गीथमाजहु:" इत्युद्गीथशब्दस्यापि प्रणवविषयत्वमेव समञ्जसम् ॥ ९ ॥
इति वेदान्तदीपे अन्यथात्वाधिकरणम् ॥ २ ॥
For Private And Personal Use Only
१. बृ. ३-३-७॥ १- २. बृ. ३-३-१ ॥ - ३. छा. १-२-२ ॥ - ४. ३-३-७॥ -५.छा, १-१-१ ॥