SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] अन्यथात्वाधिकरणम्. २७१ न्दोगानाम् ; १"हन्तासुरान्यज्ञ उद्गीथेनात्ययाम" इति तु वाजिनां कृत्लोद्रीयविषयमिति रूपभेदाद्विद्याभेदः । यथा एकस्यामपि शाखायामुद्गीथोपासने हि. रण्मयपुरुषदृष्टेः परोवरीयस्त्वादिविशिष्टदृष्टिर्भिद्यते ॥ ७॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ उद्गीथविद्येति सं.क्याद्विद्यैक्यमुतश्चेत्-विधेयभेदेऽपि संक्यमस्त्येव ; यथा नैयमिकाग्निहोत्रे कुण्डपायिनामयनाग्निहोत्रे चेत्येवमादिषु ॥८॥ व्याप्तेश्व समञ्जसम् ॥ प्रथमप्रपाठके उपक्रमवदुत्तरास्वपि प्रणवस्योपास्यत्वव्याप्तेः मध्ये च २"उद्गीथमुपासाञ्चक्रिरे" इति प्रणवविषयत्वमेव सम. असम् ॥९॥ इति वेदान्तसारे अन्यथात्वाधिकरणम् ॥ २ ॥ वेदान्तदीपे-अन्यथात्वं शब्दादिति चेनाविशेषात्।। अस्ति - द्रीयविद्या वाजिनां छन्दोगानां च ; वाजिनां तायत् १"हन्तासुरान्यक्ष उद्गीथेनास्ययाम" इत्यारभ्य, उद्गीथे प्राणदृष्टयोपासनं शत्रुपरिभवफलं विहितम् ; छन्दोगानामपि ३"तद्ध देवा उद्गीथमाजहुरनेनैनानभिहनियामः" इत्यारभ्य, उनीथे प्राणदृष्टयोपासनमेव शत्रुपरिभवफलमुक्तम् । किमुभयत्र विद्यै क्यम् , उत विद्याभेद इति संशयः। चोदनाद्यविशेषाद्विद्यै क्यमिति पूर्वः पक्षः । राद्धान्तस्तु यद्यप्युभयत्रोद्गीथे प्राणदृष्टयोपासनमविशिष्टमुक्तम् तथापि छन्दोगानाम् ४ "ओमित्येतदक्षरमुद्गीथमुपासीत" इति प्रकृस्य ३ उद्गीथमाजहरनेनैनानभिहनियामः" इत्युद्गीथावयवे प्रणवे प्राणदृष्टयोपासनमुक्तम् ; वाजिनान्तु १“हन्तासुरान्यज्ञ उद्गीथेनास्ययाम" इत्युपक्रमादविशेषेण कृत्लोद्गीथे प्राणदृष्टयोपासनमुक्तम् ।२" अथ ह य एवायं मुख्यः प्राणस्तमुद्रीथमुपासाचक्रिरे" इति च्छन्दोगानामुद्ानकर्मण्युद्गीथावयवे प्रणवे प्राणदृष्टिविधानात्, वाजिनां तु ५“अथ हेममासन्यं प्राणमुचुस्त्वं न उद्भायेति तथेति तेभ्य एष प्राण उदगायत्" इति कृत्लोद्रीयस्य कर्तरि प्राणरष्टिविधानाच्चोभयत्र रूपभेदाद्विद्याभेद इति ॥ सूत्रार्थस्तु-अन्यथात्वं शब्दादितिचेदिति राद्धान्तच्छायया परिचोद्य, नाविशेषादिति पूर्वपक्षी परिहरति । २"अथ ह य एवायं मुख्यः प्राणस्तमुद्गी १. ३-३.१॥-२. छा. १-२-७ ॥-३, छा, १-२-१॥-४. छा. १.१. १॥-५.इं. ३-३-७॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy