________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
वेदान्तसारे
[अ. ३.
मिहोलेच ; यथाचोद्गीथविद्येति छान्दोग्ये प्रथममपाठकोदितासु बहीषु
विद्यासु ॥ ८ ॥
व्याप्तेश्च समञ्जसम् । ३ । ३ । ९ ॥
छान्दोग्ये प्रथमप्रपाठके उत्तराखपि विद्यासुद्गीथावयवस्य प्रणवस्य प्रथमप्रस्तुतस्योपास्यत्वेन व्याप्तेश्च तन्मध्यगतस्य " तद्ध देवा उद्गीथमा - जहुः" इत्युद्गीथशब्दस्य प्रणवविषयत्वमेव समञ्जसम् । अवयवे च समुदायशब्दः 'पटो दग्धः' इत्यादिषु दृश्यते । अतश्रोद्गीथावयवभूतः प्रणव एवोद्गीथशब्दनिर्दिष्ट इति स एव प्राणदृष्टयोपास्यश्छान्दोग्ये प्रतिपत्तव्यः । वाजसनेयके तु कृत्स्त्रोद्गीथविषय उद्गीथशब्द इति कृत्स्नोद्गीथस्य कर्तोद्गाता प्राणदृष्टयोपास्य इति विद्यानानात्वं सिद्धम् ॥ ९ ॥
इति श्रीशारीरकमीमांसाभाष्ये अन्यथात्वाधिकरणम् ॥ २ ॥
पूर्वकाण्डोक्तं स्वीकृत्यात्र वक्तव्यमाह
वाजिनां
वेदान्तसारे - अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ छन्दोगानाञ्चोद्गीथे प्राणदृष्टयोपासनं शत्रुपरिभवफलं हि विहितम् ; तत्र विtri पूर्वपक्षं हृदि निधाय राद्धान्तच्छायया चोदयति । वाजिनां प्राणदृष्टयोपासनमुद्गीथकर्तृविषयमितरत्र कर्मविषयमिति शब्दादेव प्रतीयते ; २' अथ हेममासन्यं प्राणमुचुस्त्वन्न उद्द्वायेति तथेति तेभ्य उद्गायत्" इत्यादिनोद्गीथकर्तृविषयं वाजिनाम् : छन्दोगानान्तु ३" य एवायम्मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे " ४ इत्युद्गीथविषयमिति चेत्-तदिदमाह– अन्यथात्वं शब्दा दितिचेदिति न, उपक्रमाविशेषात् ५ " हन्तासुरान्यश उद्गीथेनात्ययाम" इत्येकत्र, अन्यत्रापि १‘“तद्ध देवा उद्गीथमा जहुर नेनैनानभिहनिष्यामः" इति ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् || नैवं प्रकरणं ह्यभयत्र भिद्यते ६"ओमित्येतदक्षरमुद्गीथमुपासीत" इत्युद्गीथावयवभूतप्रणवविषयं छ१. छा. १-२-१ ।।—२. बृ. ३-३-७॥३. छा. १-२-७ ॥ - ४. इत्युद्गीथकर्मविषय पा । ५. बृ. ३-३-१ ॥ ६. का. १-१-१ ॥
For Private And Personal Use Only