________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] अन्यथात्वाधिकरणम्.
२६९ वभूतं प्रणवं प्रस्तुत्य?"एतस्य वा अक्षरस्योपव्याख्यानं भवति"२"देवामुरा हवै यत्न संयेतिरे" इत्यारभ्य ३" अथ ह य एवायं मुख्यः प्राण. स्तमुद्गीथमुपासाश्चक्रिरे" इत्युद्गीथावयवभूतप्रणवविषयमुपासनं छन्दो. गा अधीयते; वाजिनस्तु नाशप्राचीनप्रकरणाभावात् ४"हन्तासुरान्यज्ञ उद्गीथेनात्ययाम" इति कृत्स्नमुद्गीथं प्रस्तुत्य ५“अथ हेममासन्यं प्राण मृचुस्त्वं न उद्गाय" इत्यादिकृत्स्नोद्गीथविषयमधीयते ; अतः प्रकरणभेदेन विधेयभेदः, विधेयभेदे च रूपभेद इति न विद्यैक्यम् किश्च३"अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे"इति पूर्वप्रकृत उद्गीथावयवभूतः प्रणव एवाध्यस्तपाणभावश्छन्दोगानामुपास्या वाजिनां तु कृस्त्रस्योद्गीथस्य कर्लोद्ाता प्राणदृष्टयोपास्य इति।५अथ हेममासन्य प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्" इत्युद्गातरि प्राणाध्यासं निर्दिश्य ५“य एवं वेद" इत्युद्गातैवाध्यस्तपाणभाव उपास्यो विधीयते अतश्च रूपभेदः। नचोगातर्युपास्ये विहिते ४"उद्गीथेनात्ययाम" इत्याख्यायिकोपक्रमविरोधश्शङ्कनीयः,उद्गातुरुपासने उद्गीथस्योदानकर्मभूतस्यावश्यापेक्षितत्वात्तस्यापि परपरिभवाख्यं फलं प्रति हेतुत्वात् । अतो रूपभेदाद्विद्याभेद इति चोदनाद्यविशेषेऽपि न विद्यैक्यम् । परोवरीयस्त्वादिवत्-६यथैकस्यामपि शाखायामुद्गीथावयवभूते प्रणवे परमात्मरटिविधानसाम्येऽपि हिरण्मयपुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरभूतम् ॥ ७ ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि । ३॥ ३॥ ८॥
उद्गीथविद्येति संज्ञैक्यात् तत्-वियैक्यमुक्तं चेत्-तत्-संक्यं विधेयभेदेऽप्यस्त्यवः यथा अग्निहोत्रसंज्ञा नित्याग्निहोत्रे, कुण्डपायिनामयना
१, छा. १-१-१०॥ २. छा. १-२-२॥-३. छा. १-२-७॥-४.वृ. ३-३-१॥ -५. ३. ३.३-७ ॥-६. यथैकस्यामेव. पा॥
For Private And Personal Use Only