________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
भीशारीरकामांसामाग्ये न्तिच्छायया परिचोद्य परिहरति-अन्यथास्वं शब्दादिति चेमाविशेपाव-इति। यदुक्तं विद्यैक्यमिति, तन्नोपपद्यते, रूपभेदात रूपान्ययात्वं हि शन्दादेव प्रतीयते ; वाजसनेयके हि "अथ हेममासन्यं प्राणसूचु. स्त्वं न उद्गायेति तयेति तेभ्य एष प्राण उदगायत्" इत्युद्गानस्य कर्तरि प्राणदृष्टयाऽसुरपराभवमुक्त्वा १ " य एवं वेद " इति कर्तयेव पाणदृष्टिरेवंशब्दादवगम्यते । छान्दोग्ये २ ॥ अथ ह य एवार्य मुख्यः प्राणस्तमुद्गीथमुपासाश्चकिरे" इत्युद्गानस्य कर्मण्युद्गीथे प्राणहघ्या असुरपराभवमुक्त्वा २" य एवं विदि पापं कामयते" इत्येवंशब्दाकर्मण्येवोद्गीथे प्राणदृष्टिविहिता।अत एकत्र कर्तरि प्राणदृष्टिशन्दादन्यत्र कर्मणि प्राणदृष्टिशब्दाच्च रूपान्यथात्वं स्पष्टम् । रूपान्यथात्वे च विधेयभेदे सति केवलचोदनायविशेषोऽकिश्चित्कर इति विद्याभेद इतिचेत्तन्त्र, अविशेषात्-अविशेषेण ह्यभयत्र उद्गीथसाधनकपरपरिभव उपक्रमे प्रतीयते; वाजसनेयके ३"ते ह देवा ऊचुहन्तासुरान्यज्ञ उद्गीथेनात्याम" इत्युपक्रमे श्रूयते ; छान्दोग्येऽपि ४"तद्ध देवा उद्गीथमाजहुरनेनैनानभिहनिष्यामः" इति । अत उपक्रमाविरोधाय १"तेभ्य एष प्राण उदगायत्" इत्यध्यस्तप्राणभाव उद्गीथ उद्गानकर्मभूत एव पाकादिष्वोदनादिवत्सौकार्यातिशयविवक्षया कर्तृत्वेनोच्यते; अन्यथोपक्रमगत उद्गीथशब्दः कर्तरि लाक्षणिकः स्यात् , अतो विद्यैक्यम् ।। ६ ॥
(सिद्धान्तः) --- इति प्राप्त प्रचक्ष्महेन वा प्रकरणभेदात्परोवरीयस्त्वादिवत् । ३॥३७॥
नवेति पक्षं व्यावर्तयति ; नचैतदस्ति, यद्यैिक्यमिति ; कुतः? प्रकरणभेदात् ५"ओमित्येतदक्षरमुद्गीथमुपासीत" इति प्रकृतमुद्गीथावय
१... ३-३-७॥-२. छा. १-२.७, ८ ॥ ३. इ. ३.३.१॥-४. छा. १. २.१॥-५.आ. १.१.१ ॥
For Private And Personal Use Only