________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७
पा.३.]
अन्यथात्वाधिकरणम्. इत्युक्तम् । अतः परं काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनायविशेषोऽस्ति, नेति निरूप्य निर्णीयते । अस्त्युद्गीयविद्या वाजिनां उन्दोगानां च। वाजिनां तावत् १"दया ह प्राजापत्या देवाश्चासुराश्च" इत्यारभ्य ?" ते ह देवा ऊचुः हन्तासुरान्यज्ञ उद्गीथेनात्ययाम" इत्युदीथेनासुरविध्वंसनं प्रतिज्ञायोद्गीथे वागादिमनःपर्यन्तदृष्टी असुरैरभिभवमुक्त्वा २" अथ हेममासन्यं प्राणमूचुः" इत्यादिना उद्गीथे प्राणहट्या असुरपराभवमुक्त्वा २"भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद" इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिविहिता। एवं छन्दोगानामपि ३“देवासुरा ह वै यत्र संयेतिरे" इत्यारभ्य ३"तद्ध देवा उद्गीथमाजहरनेनैनानभिहनिष्यामः" इत्युद्गीथेनासुरपराभवं प्रतिज्ञाय तद्वदेवोद्गीथे वागादिदृष्टौ दोषमभिधाय ४" अथ ह य एवार्य मुख्यः प्राणस्तमुद्गीथमुपासाश्चक्रिरे" इत्यादिना उद्गीथे प्राणदृष्टया असुरपराभवमुक्त्वा ४" यथाऽश्मानमाखणमृत्वा विध्वंसते एवं हैव स विध्वंसते य एवं विदि पापं कामयते" इति शत्नुपराभवाय उद्गीथे प्राणदृष्टिविहिता । वेदनविषयविधिप्रत्ययाश्रवणेऽपि फलसाधनत्वश्रवणाद्वेदनविषयो विधिः कल्प्यते। उद्गीथविद्यायाः क्रत्वर्थत्वेन क्रतुसाद्गण्यफलत्वेऽप्यार्थवादिकमपि फलं तदविरुद्धं ग्राह्यमेवेति देवताधिकरणे प्रतिपादितम् । तत्र संशय्यते-किमत्र विद्यैक्यम् , उत नेति। किं युक्तम् । विधैक्यमिति। कुतः उभयत्रोद्गीथस्यैवाध्यस्तपाणभावस्योपास्यत्वश्रवणाचोदनाधविशेषात् । फलसंयोगस्तावच्छत्रुपरिभवरूपो न विशिष्यते। रूपमप्यध्यस्तपाणभावोद्गीथाख्योपास्यैक्यादविशिष्टम् । चोदना च विदिधात्वर्थगताऽविशिष्टा । आख्या चोद्गीथविद्येत्यविशिष्टा । अत्र रादा
१. १. ३-३-२
-२. बृ. ३-३-७॥-३. छा-१-२-१॥-४. छा. १-२-७,८॥
For Private And Personal Use Only