________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीशारीरकमीमांसाभाष्ये
Acharya Shri Kailassagarsuri Gyanmandir
२६६
मर्थवदिति न विद्याभेदः ॥ २ ॥
१'' तेषामेवैतां ब्रह्मविद्यां वदेत शिरोवतं विधिवद्यैस्तु चीर्णम्" इत्याथर्वणिकानां शिरोवतस्य विद्योपदेशाङ्गत्वनियमदर्शनं विद्याभेदं द्योतयति, विद्यैकये ह्याथर्वणिकानामेवेति नियमो नोपपद्यत इत्याशङ्कयाह-
[अ. ३.
,
स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तनियमः।। शिरोवतं न विद्याङ्गम् अपि तु स्वाध्यायस्य तथात्वेहि- स्वाध्यायस्य तज्जन्यसंस्काभावे हि तन्नियमः, २" नैतदचीर्णव्रतोऽधीयीत" इत्यध्ययनसम्बन्धात्, समाचाराख्ये ग्रन्थे ३" इदमपि वेदव्रतेन व्याख्यातम्' 'इति वेदव्रतत्वावगमाच । १' ब्रह्मविद्यां वदेत ” – वेदविद्यामित्यर्थः । सववश्च तनियमः - यथाहि स. वहोमास्सप्तसूर्यादयः शतौदनपर्यन्ता अथर्वणिकैकाग्निसम्बन्धिनः तत्रैव भवन्ति, तथेदमप्याथर्वणवेदसम्बन्धित्वेन तत्रैव भवति ॥ ३ ॥
दर्शयति च । दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम् ; छान्दोग्ये दहरविद्यायां ४ तस्मिन्यदन्तः” इति विहितमपहतपाप्मत्वादिगु णाष्टकं तैत्तिरीयके केवलं ५ " तस्मिन्यदन्तस्तदुपासितव्यम्" इत्येवोक्तम् ; तदुभयत्र विद्यैकत्वे सम्भवति ॥ ४ ॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च । तदेवं सर्ववेदान्तेषु दहराद्युपासने समाने एकस्मिन् सति तत्तदुपासने वेदान्तान्तरविहितस्य गुणस्य वेदान्तान्तरे चोपसंहारः कर्तव्यः ; कुतः ? अर्थाभेदात् तद्विद्याङ्गत्वेन तदुपकाराभेदात् । विधिशेषवत् यथैकस्मिन्वेदान्ते वैश्वानर विद्यादिविधिशेषतया विहितस्य गुणस्य तदुपकारायोपसंहारः; तथा वेदान्तान्तरेऽपि तद्विद्याङ्गत्वा - विशेषादुपसंहारो न्याय्यः ॥ ५ ॥
इति वेदान्तदीपे सर्ववेदान्तप्रत्ययाधिकरणम् ॥ १ ॥
- ( श्रीशारीरकमीमांसाभाष्ये अन्यथात्वाधिकरणम् ॥२॥ ) -
अन्यथात्वं शब्दादितिचेन्नाविशेषात् । ३ । ३ । ६ ॥
एवं चोदनाद्यविशेषाद्विद्यैकत्वम्, एकत्वे च गुणोपसंहारः कर्तव्य
For Private And Personal Use Only
१. मु. ३-२१०२. मु. ३-२-११॥ - ३. समाचारे ॥ ४. छा. ८-१-१॥५. ते. ना. १०-२३ ॥