SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] सर्ववेदान्तप्रत्ययाधिकरणम्. वेदान्तसारे-सर्ववेदान्तप्रत्ययं चोदनाधविशेषात् ।। सर्ववेदान्तप्रस्वयं दहराधुपासनमेकमेव १ “विद्यात्" २ "उपासीत" इति कर्मविधिविध चोदनाफलसंयोगरूपाख्यानामविशेषात् ॥१॥ भेदान्नेतिचेदेकस्यामपि ॥ अविशेषपुनश्श्रुतिर्भदापादिकेति न विद्यैक्यमिति चेत्-विद्यै क्येऽपि शाखान्तरे प्रतिपतृभेदान भेदः ॥२॥ स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववञ्च तन्नियमः॥ आथर्वणवेदे ३"तेषामेवैतां ब्रह्मविद्यां वदेत" इति शिरोवतवतां नियमः शिरोवतस्य स्वाध्यायाङ्गत्वेन, ४"नैतदचीर्णवतोऽधीयीत" इति तस्याध्ययनसम्बधावगमात्, समाचाराख्यग्रन्थे ५'इदमपि वेदव्रतेन व्याख्यातम्" इति वेदवतत्वावगमाश्च । ३"ब्रह्मविद्याम्" इत्यत्र ब्रह्मशब्दो वेदविषयः । यथा सवहोमास्तेषामेव, तथा शिरोव्रतमिति तन्न विद्याभेदलिङ्गम् ॥ ३॥ दर्शयतिच ॥ श्रुतिरेव विद्यैश्यं दर्शयति ; छान्दोग्ये दहरविद्योक्तं गुणाष्टकं तैत्तिरीयके केवलं ६'तस्मिन्यदन्तः" इति वदति ॥ ४॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ।। एवं सर्वत्र विद्युक्ये अन्यत्रोक्तानामन्यत्रोपसंहारः तद्विद्योपकाररूपार्थक्यात् ; यथैकविधिशेषतया विहिताङ्गानामिति ॥५॥ इति वेदान्तसारे सर्ववेदान्तप्रत्ययाधिकरणम् ॥ १॥ वेदान्तदीपे-सर्ववेदान्तप्रत्ययं चोदनाविशेषात् ॥ किं सर्वेषु वेदान्तेषु श्रूयमाणा दहरविद्या एकैव, उत विद्यान्तरमिति संशयः। अविशेषपुनश्श्रवणस्य प्रकरणान्तरस्य च विद्याभेदहेतुत्वात् विद्यान्तरमिति पूर्वः पक्षः। योदनाफलसंयोगरूपाख्यानामविशेषात् , प्रतिपत्तृभेदेन पुनश्श्रवणोपपत्तेः, तत एव प्रकरणान्तरत्वाभावाच, विद्यैक्यमिति राद्धान्तः। विद्यासु गुणोपसं. हारादिचिन्तार्थ शाखान्तराधिकरणोक्तन्यायः तत्फलं च स्थिरीकृतम् । सूत्रायंस्तु-सर्ववेदान्तप्रत्ययमेकं दहराधुपासनम्, कुतः? चोदनाद्यविशेषात्॥१॥ . भेदाभेति चेदेकस्यामपि। अविशेषपुनश्श्रुत्या विद्याभेदावगमान विवैक्वमिति चेत्-एकस्यामपि विद्यायां शाखान्तरे प्रतिपत्तृभेदात्पुनश्श्रवण १.कठ. ६-१७॥-२. छा. १-११॥-३. मु. ३-२-१०॥--४. मु. ३-२. ११ ॥-५. समाचारे ।-६. छा. ८-१.१॥ *34 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy