________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६४
श्रीशारीरकमीमांसाभाष्ये
[अ. ३.
वेदविद्यामित्यर्थः । सववच्च तन्नियमः - यथाहि सवहोमास्सप्त सूर्यादयश्शतोदनपर्यन्ता आर्वणि कैकाभिसम्बन्धिनस्तत्रैव भवन्ति ; न त्रेतानिषु ॥ दर्शयति च । ३ । ३ ॥३॥
दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम् तथाहि छान्दो ग्ये “ तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्युक्त्वा २" किं तदल विद्यते यदन्वेटव्यम्" इति प्रश्नपूर्वकम् अपहतपाप्मत्वादिगुणाष्टकविशिष्टः परमात्मा तस्मिन्नुपास्य इत्युक्तम् ; तैत्तिरीयके तुच्छान्दोग्यस्थं प्रतिनिर्देशमुपजीव्य ३" तत्रापि दहं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्" इति गुणाष्टकविशिष्टस्य परमात्मन उपासनमुच्यते ; तदुभयत्र विद्यैकत्वेन गुणोपसंहारादेवोपपद्यते ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तदेवं शाखान्तराधिकरणन्यायसिद्धं विद्यैक्यं स्थिरीकृत्य तत्मयोजनमाह -
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च | ३ | ३ | ४ ॥
एवं सर्ववेदान्तेषु समाने सत्युपासने वेदान्तान्तरानातानां गुणानां वेदान्तान्तर उपसंहारः कर्तव्यः कुतः । विधिशेषवदर्थाभेदात्-यथैकस्मिन्वेदान्ते श्रुतो वैश्वानरदहरादिविधिशेषो गुणस्तद्विद्यासम्बन्धात्तदुपकाररूपप्रयोजनसिद्ध्यर्थमनुष्ठीयते ; तथा वेदान्तान्तरोदितोऽपि तद्विद्यासम्बन्धित्वेन तदुपकाराविशेषादुपसंहर्तव्य इत्यर्थः । चशब्दोऽवधारणे ॥ ४ ॥
इति श्रीशारीरकमीमांसाभाष्ये सर्ववेदान्तप्रत्ययाधिकरणम् ॥ १ ॥
१. छा. ८-१-१ ।।—२ छा. ८-१-२ । ३. तै. नारा. १०-२३ ॥
For Private And Personal Use Only