________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३
पा. ३.]
सर्ववेदान्तप्रत्ययाधिकरणम् . विशेषात्" इति कर्मकाण्डशाखान्तराधिकरणसूत्रोक्तासंयोगरूपाख्या गृह्यन्ते । एषां चोदनादीनामविशेषात् सैवेयं विद्येति शाखान्तरे प्रत्यभिज्ञायते । तथाहि-छान्दोग्यवाजसनेयकयोः १" वैश्वानरमुपास्ते" इति चोदना तावदेकरूपाः वेद्यैकनिरूपणीयस्वरूपस्य विदिपर्यायस्योपासेर्वेधभूतवैश्वानरैक्याद्रपमप्यविशिष्टम्; आख्या च वैश्वानरवियेत्यविशिष्टा फलसंयोगोऽप्युभयत्रापि ब्रह्मप्राप्तिरूपोऽविशिष्टः । अत एभिः प्रत्यभिज्ञानाच्छाखान्तरेऽपि विचैक्यम् ॥ १ ॥
___ यत्तक्तमविशेषपुनश्श्रवणात्मकरणान्तराच्च विधेयभेदप्रतीतेने निवैक्यमिति, तदनुभाष्य परिहरतिभेदान्नेति चेदेकस्यामपि। ३।३।२॥
अविशेषपुनश्श्रुत्या प्रकरणान्तराच्च विधेयभेदान्न विधैक्यमिति चेत्-एकस्यामपि विद्यायां प्रतिपत्तृभेदात्पुनश्श्रुतिः प्रकरणान्तरं चोपपद्यते । यत्र ोकस्मिन् प्रतिपत्तरि पुनश्थुतिः प्रकरणान्तरं च विद्यते । तनान्यथानुपपत्त्या विधेयभेदाद्विद्याभेदः, प्रतिपत्तभेदे तु तत्प्रतिपस्यर्थतया पुनश्श्रुत्याद्युपपत्तेस्तत्र न विधेयान्तरसम्भवः ॥२॥
___ यच्चोक्तं शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशनियमदर्शनादिद्याभेदः प्रतीयत इति, तत्राह
नैतदस्ति-शिरोव्रतोपदेशनियमदर्शनं विद्याभेदं द्योतयति-इति, शिरोव्रतस्य विद्याङ्गत्वाभावात् । स्वाध्यायस्य तथात्वे हि तन्नियमः-स्वाध्यायस्य तथात्वसिद्ध्यर्थ-तजन्यसंस्कारभावसिद्ध्यर्थं हि शिरोव्रतोपदेशनियमः, न विद्यायाः। कुत एतत? २ "नैतदचीर्णव्रतोऽधीयीत" इति तस्याध्ययनसंयोगातःसमाचारेऽधिकाराच-समाचाराख्ये ग्रन्थे३ "इदमपि वेदव्रतेन व्याख्यातम्" इत्यतिदेशात् । ४"तेषामेवैतां ब्रह्मविद्यां वदेत" १. छां. ५-१८-१ ।।-२. मु. ३.२, ११॥-३. समाचारे।।-४, मु. ३-२,१०।।
For Private And Personal Use Only