________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसामाध्ये [म. २. मुखमानः" "अनीशश्चात्मा बध्यते भोक्तभावाद"इत्यादिभिः। कार्यस्य हि जगतोऽचेतनत्वदुःखित्वादयो निर्दिश्यन्ते। यद्धि यत्कार्यम्, तत्तस्मादविलक्षणम् , यथा मृत्सुवर्णादिकार्य घटरुचकादि । अतो ब्रह्मविलक्षणस्यास्य जगतस्तत्कार्यत्वं न सम्भवतीति साङ्यस्मृत्यनुरोधेन कार्यसलक्षणं प्रधानमेव कारणं भवितुमर्हति । अवश्यं च शास्त्रस्यानन्यापेक्षस्यातीन्द्रियार्थगोचरस्यापि तर्कोऽनुसरणीयः; यतस्सर्वेषां प्रमाणानां कचित्कचिद्विषये तर्कानुगृहीतानामेवार्थनिश्चयहेतुत्वम् । तर्को हि नामअर्थस्वभावविषयेण वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाण व्यवस्थापयत्तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम् । तदपेक्षा च सर्वेपां प्रमाणानां समाना; शास्त्रस्य तु विशेषेणाकासासनिधियोग्यताझानाधीनप्रमाणभावस्य सर्ववैव तर्कानुग्रहापेक्षा ; उक्तंच मनुना २"यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः" इति । तदेव हि तर्कानुगृहीतशास्त्रार्थप्रतिष्ठापनं श्रुत्या च ३ "मन्तव्यः" इत्युच्यते । अथोच्येत-श्रुत्या जगतो ब्रह्मैककारणत्वे निश्चिते सति तत्कार्यस्यापि जगतश्चैतन्यानुवृत्तिरभ्युपगम्यते। यथा चेतमस्य सुषुप्तिमूर्छादिषु चैतन्यानुपलम्भः, तथा घटादिष्वपि सदेव चैतन्यमनुद्भतम् ; अत एव चेतनाचेतनविभागः-इति । नैतदुपपद्यते, यतो नित्यानुपलब्धिरसद्भावमेव साधयति । अत एव चैतन्यशक्तियोगोऽपि तेषु निरस्तः । यस्य हि कचित्कदाचिदपि यत्कार्यानुपलब्धिः, तस्य तत्कार्यशक्ति ब्रुवाणो बन्ध्यासुतसमितिषु तज्जननीनां प्रजननशक्तिं ब्रूताम् । किञ्च वेदान्तैर्जगतो ब्रह्मोपादानतापतिपादननिश्चये सति घटादीनां चैतन्यशक्तेश्चैतन्यस्य वाऽनुद्भतस्य सद्भावनिश्चयः, तनिश्चये सति वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चय इतीतरेतराश्रयत्वम् । विलक्षणयोर्हि कार्यकारणभावः प्रतिपादयितुमेव
२. मनु. १२-१०६ ॥ ३. पृ. ६-५-६ ॥
For Private And Personal Use Only