________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
विलक्षणत्वाधिकरणम्.
न शक्यते । किं पुनः प्रकृतिविकारयोस्सा लक्षण्यमभिप्रेतम्, यदभावाज्जगतो ब्रह्मोपादानताप्रतिपादनासम्भवं ब्रूषे; न तावत्सर्वधर्म सारूप्यम्, कार्यकारणभावानुपपत्तेः । नहि मृत्पिण्डकार्येषु घटशरावादिषु पिण्डत्वाद्यनुवृत्तिर्दृश्यते । अथ येनकेनचिद्धर्मेण सारूप्यम्, तज्जगद्ब्रह्मणोरपि सत्तादिलक्षणं सम्भवति — तदुच्यते, येन स्वभावेन कारणभूतं वस्तु वस्त्वन्तराद्वयावृत्तम्, तस्य स्वभावस्य तत्कार्येऽप्यनुवृत्तिः कार्यस्य कारणसालक्षण्यम्, येन ह्याकारेण मृदादिभ्यो हिरण्यं व्यावर्तते, तदाकारानुवृत्तिस्तत्कार्येषु कुण्डलादिषु दृश्यते । ब्रह्म च हे प्रत्यनीकज्ञानानन्दैश्वर्यस्वभावम्, जगच्च तत्प्रत्यनीकस्वभावमिति न तदुपादानम् । ननु च वैलक्षण्येऽपि कार्यकारणभावो दृश्यते, यथा चेतनात् पुरुषादचे - तनानि केशनखदन्तलोमानि जायन्ते ; यथाचाचेतनाद्गोमयाच्चेतनो वृश्चिको जायते ; चेतना चोर्णनाभेरचेतनस्तन्तुः ; नैतदेवम्, यतस्तत्राप्यचेतनांश एव कार्यकारणभावः ॥ ४ ॥
अथ स्यात्-अचेतनत्वेनाभिमतानामपि चैतन्ययोगश्श्रुतिषु श्राव्यते १ " तं पृथिव्यब्रवीत् " २" आपो वा अकामयन्त" ३" ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्माणं जग्मुः " इति । नदीसमुद्रपर्वतादीनामपि चेतनत्वं पौराणिका आतिष्ठन्ते; अतो न वैलक्षण्यम् - इति । अत उत्तरं पठति—
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् | २| १| ५॥
तुशब्दश्वोदिताशङ्कानिवृत्त्यर्थः ; पृथिव्याद्यभिमानिन्यो देवताः १" तं पृथिव्यब्रवीत् ” इत्यादिषु पृथिव्यादिशब्दैर्व्यपदिश्यन्ते । कुतः ?
१. यजुषि. ५ का ५ प्र. २- अनु ॥ २. यजुषि, ३- अष्टक. १ - प्र. ५ - अनु॥ ३. बृ. ८-१-७॥ #2
For Private And Personal Use Only