________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.१.]
विलक्षणवाधिकरणम् वेदान्तसारे-एतेन योगः प्रत्युक्तः॥ योगस्य हैरण्यगर्भस्यापि का. पिलस्मृतिवद्वेदविरुद्धत्वाविशेषात् तद्वनिरासः ॥ ३॥
इति वेदान्तसारे योगप्रत्युक्त्यधिकरणम् ॥ २ ॥
वेदान्तदीपे-एतेन योगः प्रत्युक्तः ॥ किं वेदान्तानां योगस्मृत्योपहणं न्याय्यम्? उत नेति संशयः । न्याय्यमिति पूर्वः पक्षः, कृत्ववेदप्रवर्तना. धिकृतहिरण्यगर्भप्रणीतत्वाद्योगस्य, ईश्वरसद्भावाभ्युपगमाञ्च । अतो योगस्मृत्योपहितत्वेन वेदान्तानामब्रह्मात्मकप्रधानोपादानप्रतिपादनपरत्वम् । रा. द्धान्तस्तु-कपिलस्मृतिववेदविरुद्धत्वाविशेषादनादरणीयैव योगस्मृतिः; हिरण्यगर्भस्यापि क्षेत्रात्वेन भ्रमसम्भवात् योगस्मृतेरपि भ्रान्तिमूलकत्वम् । सू. मपि व्याख्यातम् ॥ ३॥
इति वेदान्तदीपे योगप्रत्युत्थधिकरणम् ॥ २ ॥
श्रीशारीरकमीमांसाभाष्ये विलक्षणत्वाधिकरणम् ॥३॥...
न विलक्षणत्वादस्य तथात्वं च शब्दात् ।।१४।
पुनरपि स्मृतिविरोधवादी तर्कमवलम्बमानः प्रत्यवतिष्ठते-यत्सा. अचस्मृतिनिराकरणेन जगतो ब्रह्मकार्यत्वमुक्तम् तमोपपद्यते,अस्य प्रत्यक्षादिभिरचेतनत्वेनाशुद्धत्वेनानीश्वरत्वेन दुःखात्मकत्वेन चोपलभ्यमानस्य चिदचिदात्मकस्य जगतः भवदभ्युपेतात्सर्वज्ञात्सर्वेश्वराद्धयमत्यनीकादानन्दैकतानाह्मणो विलक्षणत्वात् । न केवलं प्रत्यक्षादिभिरेव जगतो वैलक्षण्यमुपलभ्यते; शब्दाच तथात्वं-विलक्षणत्वम् उपलभ्यते१"विज्ञानं चाविज्ञानं च २"एवमेवैता भूतमानाः प्रज्ञामाताखर्पिताः प्रज्ञामानाः प्राणेऽर्पिता:" ३"समाने वृक्षे पुरुषो निमनोऽनीशया शोचति १. तै. भान. ६.३॥ २. कौषी. ३, ९॥ ३. मु. ३.१.१ ॥
-
-
-
-
For Private And Personal Use Only