SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ श्रीशारीरकमीमांसाभाष्ये [अ. २. र्माणामपि स्वरूपं परब्रह्मभूतपरमपुरुषाराधनत्वम् १ " इष्टापूर्ते बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः । तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः " २" यज्ञैस्त्वमिज्यसे नित्यं सर्वदेवमयाच्युत" इत्यादिश्रुतिस्मृतिभिः । सूत्रमपि व्याख्यातम् ॥ १ ॥ अतीन्द्रियार्थ साक्षात्कारसमर्थस्य कपिलस्य वेदान्तानां ब्रह्मपरत्वानुपलब्धेः प्रधानपरत्वमेवाश्रयणीयमित्यत उत्तरं पठति--- Acharya Shri Kailassagarsuri Gyanmandir इतरेषाञ्चानुपलब्धेः । इतरेषां मन्वादीनां वेदविदग्रेसराणां सर्वातीन्द्रियार्थसाक्षात्कारसमर्थानां प्रधानपरत्वानुपलब्धेः ब्रह्मपरत्वोपलब्धेश्व ब्रह्मपरत्वमेवाश्रयणीयम् वेदान्तप्रतिपन्नार्थविरुद्धायास्तु कपिलोपलब्धेर्भ्रान्तिमूलत्वं कल्पयितव्यम् ॥ २ ॥ ; इति वेदान्तदीपे स्मृत्यधिकरणम् || १ || (श्रीशारीकमीमांसाभाध्ये योगप्रत्युक्त्यधिकरणम् ॥ २ ॥ ) - १. तै. नारा - ६. १६, १७ ॥ एतेन योगः प्रत्युक्तः । २ । १ । ३॥ एतेन - कापिलस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्ता । का पुनरनाधिकाशङ्का, यन्निराकरणाय न्यायातिदेशः — योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानाद्वक्तुर्हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यम् - इति ॥ परिहारस्तु - अब्रह्मात्मकप्रधानकारणवादान्निमित्तकारणमात्रेश्वराभ्युपगमाख्यानात्मकस्य योगस्य ध्येयैकनिरूपणीयस्य ध्येयभूतयोरात्मेश्वरयोर्ब्रह्मात्मकत्वजगदुपादानतादिसर्व कल्याणगुणात्मकत्वविरहेणावैदिकत्वाद्वक्तुर्हिरण्यगर्भस्यापि क्षेत्रज्ञभूतस्य कदाचिद्रजस्तमोभिभवसम्भवाच्च योगस्मृतिरपि तत्प्रणीत रजस्तमो मूलपुराणवान्तिमूलेति न तया वेदान्तोपबृंहणं न्याय्यम् - इति ॥ ३ ॥ इति श्री शारीरकमीमांसाभाष्ये योगप्रत्युक्त्यधिकरणम् ॥ २ ॥ २. वि-पु. ५.२० ९७ ॥ For Private And Personal Use Only •
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy