SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६१ पा. २.] फलाधिकरणम् . दिकर्मभिस्सस्यादिकमुत्पाद्य, तेन भृत्यद्वारेण साक्षावा राजानमभ्यर्च्य, तत एवापेक्षितानि लभन्ते ; अतः परमपुरुष एव फलप्रदः॥ सूत्रार्थस्तु-फलमत उपपत्तेः-अतः-परस्माब्रह्मण एव कर्मभिरुपा. सनेन चाराधितात् भोगापवर्गरूपफलम् । कुतः ? उपपत्तेः-कर्म हि क्षणध्वं सि न कालान्तरभाविफलायालम् । स हि सर्वज्ञस्सर्वशक्तिः परमकारुणिको महोदारः अनादिरनन्तश्च सर्वेश्वरः स्वाराधनरूपेण कर्मणा आराधितः फलप्रद इत्युपपद्यते ॥ ३७॥ श्रुतत्वाच्च ।।१" स वा एष महानज आत्मा अन्नादो वसुदानः"२"एष ह्येवानन्दयाति" इति भोगापवर्गरूपं फलमयमेव ददातीति हि श्रूयते ॥ ३८॥ धर्म जैमिनिरत एव । यागादिकमुपासनात्मकं च धर्ममेव फलप्रदं जैमिनिराचार्यों मन्यते, अतएव-उपपत्तेश्श्रुतत्वावेत्यर्थः । लोके कृष्यादेदनादेश्च कर्मण एव साक्षात्परम्परया वा फलदायित्वदर्शनात् वेदेऽपि तथैव युक्तमित्युपपत्तिः । उपपद्यते चापूर्वद्वारेण साधनत्वम् । ३ "यजेत स्वर्गकामः" ४" ब्रह्मविदाप्नोति परम्' इति कामिनः कर्तव्यतया कर्मविधानान्यथानुपपत्या कर्मैवापूर्वद्वारेण फलसाधनमित्यवगम्यते ॥ ३९ ॥ पूर्व तु बादरायणो हेतुव्यपदेशात् ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । पू. वोक्तं परमपुरुषस्यैव फलप्रदत्वं भगवान बादरायणो मन्यते । कुतः ? हेतुव्यपदेशात्-५" वायुमेव खेन भागधेयेनोपधावति स एवैनं भूतिं गमयति" इति वाय्वाद्यात्मना अवस्थितस्य परमपुरुषस्यैव फलप्रदत्वव्यपदेशात् । ६"यो वायौ तिष्ठन्” इति च वाय्वाद्यात्मना स एव व्यवस्थितश्श्रूयते, ७“ तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः" इति च । तत्परित्यागेनापूर्वस्य फलसाधनत्वकल्पने श्रुतहानमश्रुतकल्पनं च। विध्यपेक्षितफललाधनत्वप्रकारे वाक्यशेषेणावगते सति न फलसाधनत्वप्रकारकल्पनं न्याय्यम्; यथैव हि रात्रिसत्रा. दिवधिकारी न कल्प्यइत्यर्थः ॥ ४०॥ इति वेदान्तदीपे फलाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे तृतीयस्याध्यायस्य द्वितीयः पादः ॥ २॥ १. 1. ६-४-२४ ॥-२, ते. आनं, ७-१॥-३.यजुषि.२.५-५।।-४. ते आनं-१. भनु. १।।-५. यजु. २-कां. १-प्र. १-६।।-६. ब. ५-७-७॥--७. ते. नारा. १-७।। For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy