________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
वेदान्तदीपे
[म. ३. बा फलसिद्धिदर्शनम् । श्रुतत्वश्च कामिनः कर्तव्यतया कर्मविधानान्यथानुपपत्या कमॆवापूर्वद्वारेण तत्तत्फलसाधनमिति निश्चयः ॥ ३९ ॥
पूर्व तु बादरायणो हेतुव्यपदेशात् ॥ पूर्वोक्तं परमपुरुषस्यैव फलदायित्वं भगवान् बादरायणो मन्यते, १"वायव्यं श्वेतमालभेत" इत्यादिषु १“स एवैनं भूर्ति गमयति" इति भगवदात्मकतया वाय्वादेः कर्मविधिध्वेव फलहेतुत्वव्यपदेशात् । वाक्यशेषस्थं विध्यपेक्षितं हि २"प्रतितिष्ठन्ति ह वा" इत्यादिषु स्वीक्रियते । ३ 'यो वायौ तिष्ठन्" इति हि श्रूयते ॥ ४० ॥
इति वेदान्तसारे फलाधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे तृतीयस्याध्यायस्य
द्वितीयः पादः॥२॥
वेदान्तदीपे-फलमत उपपत्तेः ।। किं वेदोदितं यागदानहोमादिकमुपासनाख्यं च ४“यजेत"५'उपासीत" इति कामिनो मुमुक्षोश्च कर्तव्यतया भ्रूयमाणं कर्मैवापर्वद्वारेण भोगापवर्गरूपफलदम् , उत तत्तदाराधनैः प्रीतः परमपुरुष एव फलद इति संशयः । कमैवेति पूर्वः पक्षः, लोके मर्दनादेः कृध्यादेश्च कर्मण एव साक्षात्परम्परया वा फलप्रदत्वदर्शनात् । वेदे च ४'यजे. त स्वर्गकामः" ५"आत्मानमेव लोकमुपासीत" इति कामिनो मुमुक्षोश्च कर्तव्यतया श्रूयमाणं कर्म तत्तत्फलसाधनतयाऽवगतं क्षणिकमप्यपूर्वद्वारेण भोगापवर्गरूपसर्वफलप्रदम् । राद्धान्तस्तु-कर्तव्यतयाऽवगतस्य यागादेरुपासनस्य च ६“यज देवपूजायाम्" इत्यादिनाऽवगतधात्वर्थस्वाभाव्यात् , १ "वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति" इति वाक्यशेषाच, ७ 'इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः। तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः" "स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान्" ९"अहं हि सर्वयज्ञानां भोकाच प्रभुरेव च" १. "स्वकर्मणा तमभ्यर्य सिद्धि विन्दति मानवः" ११"तत्प्रसा दात्परां शान्ति स्थान प्राप्स्यसि शाश्वतम्" इत्यादिश्रुतिस्मृतिभ्यश्च, परमपुरु. ष एव कर्मभिरुपासनेन चाराधितो भोगापवर्गरूपफलप्रदः । लोके च कृण्या
१. यजु. २ -कां. १.प्र. १-५।। २।।-३ बृ. ५-७-७॥---४. यजुषि. २-५-५ ।। ५. छा. १-१-१; वृ. ३.४ १५ ।।-६. धातु-भ्वादि ।। -७. ते. ना, १-६ ॥-८. गी. ७-२२ ।।- १. गी. ९.२४ ।।-१०.गी. १८-४६ ॥-११. गी. १८.६२ ।।
For Private And Personal Use Only