SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] फलाधिकरणम् . २५९ १“योऽनौ तिष्ठन्"१“य आदित्ये तिष्ठन्" इत्यादि श्रूयतेोमर्यते च २“योयो यांयां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्यतस्याचलां श्रद्धांतामेव विदधाम्यहम्।। स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान् हि तान्" इति, ३“अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेवच" इति । प्रभुरिति-फलप्रदायीत्यर्थः। २"देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि" ३“यान्ति मद्याजिनोऽपि माम्" इति च। लोके च कृष्यादिभिर्विचित्ररूपान् द्रव्यविशेषान् सम्पाद्य तैः राजानं भृत्यद्वारेण साक्षाद्वाऽर्चयन्ति; अर्चितश्च राजा तत्तदर्चनानुगुणं फलं प्रयच्छन् दृश्यते। वेदान्तास्त्वतिपतितसकलेतरप्रमाणसम्भावनाभूमिं निरस्तसमस्ताविद्यादिदोषगन्धं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं पुरुषोत्तमं प्रतिपाद्य,तदाराधनरूपाणि च यागदानहोमात्मकानि, स्तुतिनमस्कारकीर्तनार्चनध्यानानि च तदाराधनानि,आराधितात्परस्मात्पुरुषाद्भोगापवर्गरूपं फलं च, वदन्तीति सर्व समञ्जसम् ॥ ४० ॥ इति श्रीशारीरकमीमांसाभाष्ये फलाधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य द्वितीयः पादः ॥ २॥ वेदान्तसारे-फलमत उपपसेः ॥ अतः परस्माब्रह्मण एव कर्मभिरुपासनेन चाराधितात् भोगापवर्गरूपफलं सिद्ध्यति ; कर्म क्षणध्वंसि न कालान्तरभाविफलायालमिति सर्वज्ञात् परमकारुणिकात् फलसिद्धिरुपपद्यते॥३॥ भ्रुतत्वाच ॥ श्रुतमेव हि ४' अन्नादो वसुदानः" ५" एष होवानन्दयाति" इति अस्यैव फलदायित्वम् ॥ ३८ ॥ धर्म जैमिनिरत एव । धर्ममेव अतः--उपपत्तेः, श्रुतत्वाञ्च, फल ६दायिनं जैमिनिमैने । उपपत्तिस्तु कृप्यादेर्मर्दनादेश्च कर्मणस्साक्षात्परम्परया १. वृ. ५-७-५, ९॥–२. गो. ७-२१,२२,२३ ।।-३. गी. ९.२४,२५॥४. .. ६.४-२४ ।।-५. ते. भानं. ७-१ ।।-६. साधनं. पा ।। For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy