________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
श्रीशारीरकमीमांसाभाष्ये
[म. ३.
क्षाद्वा, परम्परयावा स्वयमेव फलसाधनं दृष्टम्; एवं वेदेऽपि यागदान होमादीनां साक्षात्फलसाधनत्वाभावेऽपि परम्परया अपूर्वद्वारेण फलसाधनत्वमुपपद्यते। तथा "यजेत स्वर्गकामः" इत्यादिशास्त्रमपि सिषाधयिषितस्वर्गस्य कर्तव्यतया यागाद्यभिदधदन्यथानुपपत्त्या अपूर्वद्वारेण फलसा - धनत्वमवगमयति ॥ ३९ ॥
पूर्व तु बादरायणो हेतुव्यपदेशात्। ३ ।२।४० ॥
तुशब्दः पक्षव्यावृत्त्यर्थः ; पूर्वोक्तं परमपुरुषस्यैव फलमदत्वं भगवान्बादरायणो मन्यते । कुतः । हेतुव्यपदेशात् - २" यज- देवपूजायाम्" इति देवताराधनभूतयागाद्याराध्यभूतानिवाय्वादिदेवतानामेव तत्तत्फलहेतुतया तस्मिंस्तस्मिन्नपि वाक्ये व्यपदेशात् ३" वायव्यं श्वेतमा लभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति" इत्यादिषुकामिनस्सिषाधयिषितफलसाधनत्वप्रकारोपदेशोऽपिविध्यपेक्षित एवेति नातत्परत्वशङ्का युक्ता । एवमपेक्षितेऽपि फलसाधनत्वप्रकारे शब्दादेवावगते सति तत्परित्यागमश्रुतापूर्वादिपरिकल्पनं च प्रामाणिका न सहन्ते । लिङादयोऽपि देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां शब्दानुशासनानुमतामभिदधति; नान्यदलौकिकमिति प्रागेवोक्तम् । तदेवं ३" वायुवै क्षेपिष्ठा देवता" इत्यादिशब्दाद्वाय्वादीनां फलप्रदत्वमवगम्यते । वाय्वाद्यात्मना च परमपुरुष एवाराध्यतया फलप्रदायित्वेन चावतिष्ठत इति श्रूयते ४ " इष्टापूर्ते बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः । तदेवाभिस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः इति । अन्तर्यामिब्राह्मणे च ५" यो वाय तिष्ठन्यस्य वायुश्शरीरम् "
"
१. यजुषि २-५-५ ॥ - २. धातु भ्वादि || 1- ३. यजु. २. कां. १ - प्र. १ - पं ॥ - ४. तै. नारा. १-६ ॥ ५. बृ. ५-७०७ ॥
For Private And Personal Use Only