________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५७
पा. २.]
फलाधिकरणम्. यो गृह्यन्ते। अतः १" यतो वा इमानि" इत्यादिनाऽवगतजगन्निमित्तोपादानकारणाब्रह्मणोऽन्यत्परं न विद्यते ॥ ३६॥
इति वेदान्तदीपे पराधिकरणम् ।। ७ ।।
--(श्रीशारीरकमीमांसाभाष्ये फलाधिकरणम् ॥ ८॥)
.
फलमत उपपत्तेः । ३।२।३७॥
उक्तमुपासिसिषोपजननार्थ जीवस्य सर्वावस्थासु सदोषत्वं, प्राप्यस्य च परमपुरुषस्य निर्दोषत्वं, कल्याणगुणाकरत्वं, सर्वस्मात्परत्वञ्च; अतः परमुपासनं विवक्षन्नुपासीनानां परस्मादेवास्मात्पुरुषात्तत्माप्तिरूपमपवर्गाख्यं फलमिति सम्पति ब्रूते । तुल्यन्यायतया शास्त्रीयमैहिकामुष्मिकमपि फलम् अत एव परस्मात्पुरुषाद्भवतीति सामान्येन ‘फलमतः' इत्युच्यते। कुत एतत्? उपपत्तेः स एव हि सर्वज्ञस्सर्वशक्तिमहोदारो यागदा. नहोमादिभिरुपासनेन चाराधित ऐहिकामुष्मिकभोगजातं स्वस्वरूपावाप्तिरूपमपवर्ग च दातुमीष्टे नह्यचेतनं कर्म क्षणध्वंसि कालान्तरभाविफलसाधनं भवितुमर्हति ॥ ३७ ।।।
श्रुतत्वाच्च । ३।२। ३८॥ २"स वा एष महानज आत्माऽन्नादो वसुदानः" ३"एष ह्येवानन्दयाति" इति भोगापवर्गरूपं फलमयमेव ददातीतिहि श्रूयते ॥ ३८ ॥
सम्पति पूर्वपक्षमाहधर्म जैमिनिरत एव । ३।२।३९॥
अत एव-उपपत्तेः,शास्त्राच यागदानहोमोपासनरूपधर्ममेव फलपदं जैमिनिराच्यार्यों मन्यते । लोके हि कृष्यादिकर्म, दानादिकं च कर्म सा१. ते. भृगु. १.अनु ॥-२.बु. ६-४-२४ ॥-३. ते. आनं. ७-१ ॥
*33
For Private And Personal Use Only