SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ वेदान्तदीपे [म. ३. इत्युन्मानव्यपदेशस्तथाऽनुसन्धानार्थः ; १" वाक्पादः...चक्षुः पादः" इति वत् ॥३२॥ अपरिमितस्वरूपस्यानुसन्धानार्थतयापि कथं परिमितत्वमित्यत आह स्थानविशेषात्प्रकाशादिवत् ॥ प्रतिपन्नवागादिस्थानविशेषसम्बन्धासत्तत्स्थानसम्बन्धित्वेनावच्छिद्यानुसन्धानं युज्यते ; यथा प्रकाशादेर्विततस्यापि वातायनघटादौ ॥ ३३॥ उपपत्तेश्च ॥ २"अमृतस्यैष सेतुः" इत्यमृतस्य स्वस्य स्वयमेव प्रापक इति सेतुत्वव्यपदेशोपपत्तेश्चान्यत्परमस्तीति कल्पनं न युज्यते । ३"नायमा स्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुतं तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं खाम्" इति हि श्रूयते ॥ ३४॥ तथाऽन्यप्रतिषेधात्।। ४"तेनेदं पूर्ण पुरुषेण सर्व"४'ततो यदुत्तरत रम्" इति पुरुषादन्यस्य न परत्वमाह-५"न तस्येशे कश्चन" ६"न होतस्मादिति नेत्यन्यत्परमस्ति" ४ 'यस्मात्परं नापरमस्ति किञ्चिद्यस्मानाणीयो न ज्यायोऽस्ति कश्चित्" यस्मादपरं परं नास्ति किश्चिदित्यर्थः; एवमादिषु पुरुषादन्यस्य परत्वप्रतिषेधात् । ४ "ततो यदुत्तरतरम्" इति तु यतः पुरुषतत्त्वमेवोत्तरतरम् । ततो हेतोः यदुत्तरतरं पुरुषतत्त्वम् । तदेव ४"अरूपमनामयम्" इत्यादिना व्याख्यातम्। ४" य एतद्विदुरमृतास्ते भवन्ति" इति–४"त. मेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय” इति प्रतिज्ञातमेवोपसंहृतम् । ५ ' न तस्येशे कश्चन तस्य नाम महद्यशः” इति च पुरुषतत्त्वमेव वदति। अनन्तरम् ७" अद्भयस्सम्भूतो हिरण्यगर्भ इत्यष्टौ" इति पुरुषतत्त्ववाचिनैकवाक्यत्वावगमात् ८ " अम्भस्यपारे" ९“यमन्तस्समुद्रे कवयो वय न्ति" इति च प्रक्रमातू ॥ ३५ ॥ ___अनेन सर्वगतत्वमायामशब्दादिभ्यः।। अनेन ब्रह्मणा सर्वस्य व्याप्तत्वं ४" तेनेदं पूर्ण पुरुषेण सर्वम्" १०" अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः" ११. नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भतयोनि परिपश्यन्ति धी. राः" इत्यायामशब्देभ्यः--सर्वव्याप्तिवाचिशब्देभ्योऽवगम्यते । एवमवगम्यमानमेतस्मात्परं वारथतीत्यर्यः। आदिशब्दात् १२ "आत्मैवेदं सर्वम्" इत्यादि १. छा. ३ १८.२-२. मु. २-२-५॥-३. मु ३ २-३॥---४.श्वे. ३.९,१०,८॥ -~-५. तै. नारा. १-९ ॥-६. बृ ४.३-६ ॥--- ७. तै. नारा. १.११ ।।---८. ते. ना. १-१॥-९. ते, नारा. १-३ ॥-१०. ते. नारा. ११.२५ ॥-११, मु. १-१-६ ॥ -१२. छा. ७.२५-२॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy