SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] पराधिकरणम् . २५५ द्धान्तस्तु-"न ह्येतस्मादिति नेत्यन्यत्परमस्ति" इति नेति निर्दिष्टात् मू मूर्तरूपाब्रह्मणोऽन्यत्परं नास्तीति परतत्त्वनिषेधात्कारणाब्रह्मणोऽन्यत्परं ना. स्ति । सेतुत्वव्यपदेशस्तु २"एषां लोकानामसम्भेदाय'' इति सर्वलोकासङ्करकरत्वकृतः। २"एतं सेतुं तीर्वा" इति तरतिरपि'वेदान्तं तरति' इतिवत्पातिवचनः। ३"चतुप्पाब्रह्म" ४ "षोडशकलम्" इत्युन्मानव्यपदेशोऽपि ३"वाक्पादः ...चक्षुः पादः" इतिवदुपासनार्थः । सम्भवति चापरिमितस्यापि त. त्तद्देशसम्बन्धितयोन्मितत्वानुसन्धानम् । ५"अमृतस्यैष सेतुः" इति खस्यै. वामृतस्य स्वयमेव प्रापकमुच्यते, ६"यमेवैष वृणुते तेन लभ्यः"इत्यादिश्रुतेः । ७"ततो यदुत्तरतरम्" इत्यपि ७"तेनेदं पूर्णम्" इति निर्दिष्टात्पुरुषादन्यस्य न परत्वमाह; अपि तु ७'तमेवं विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽ. यनाय" इति पूर्वप्रतिज्ञातं पुरुषवेदनस्यामृतत्वहेतुत्वमन्यस्य चापथत्वं सहे. तुकमुपसंहरति । ७ 'यस्मात्परं नापरमस्ति किश्चित्" इत्यारभ्य 'तेनेदं पूर्ण पुरुषेण सर्वम्" इति पुरुषस्य सर्वस्मात्परत्वं ज्यायस्त्वमन्यस्य परत्वाभावं च प्रतिपाद्य ततो हेतोः यदुत्तरतरं पुरुषतत्त्वम् ; तदेवारूपमनामयम्; ७"य एतद्विदुरमृतास्ते भवन्ति अयंतरे दुःखमेवापि यन्ति" इति पूर्वप्रतिज्ञातमेवोपसंहृतम् ॥ सूत्रार्थस्तु-परमतः-८"जन्माद्यस्य यतः" इत्यारभ्य ९“अतोऽनन्तेन तथाहि लिङ्गम्" इत्यन्तेन प्रतिपादितानिखिलजगदेककारणात्सर्वान्तरात्मनो निरस्तनिखिलदोषगन्धानवधिकातिशयानन्तकल्याणगुणाकरात्परस्माद्रह्मणः परमपि किञ्चिदस्तीति कश्चिन्मन्यते । कुतः ? सेतून्मानसम्बन्धमेदव्यपदेशेभ्यः । व्याख्याताश्चैते ॥ ३०॥ सामान्याच ॥ तुशब्दः पक्षं व्यावर्तयति ; सेतुत्वव्यपदेशस्तावत् तस्मात्परं नावगमयति, सेतुसामान्यात्-सादृश्याजगद्विधृतिरूपात् ब्रह्मणस्तथाव्यपदेश इति श्रुतिरेव सेतुशब्दं व्याचष्टे-१०"अथ य आत्मा स सेतुविधृतिरेषां लोकानामसम्भेदाय" इति । यद्यत्स्वभावा लोकास्सृष्टास्तत्तत्वभावासङ्कराय सर्वान् लोकानयमेव सेतुवद्विभर्तीति सेतुरित्यर्थः॥३१॥ बुद्ध्यर्थः पादवत्।। ३ "चतुष्पाद्ब्रह्म" ११"पादोऽस्य विश्वा भूतानि" १. बृ. ४-३-६ ।।-२. छां. ८-४. १-२ ॥-३. छां. ३-१८-२॥-४. प्रश्न. ६-१॥ -५. मु. २, २-५ ।। -६. मु. ३.२-३ ॥-७. ओ. ३-अ. १०.९.८ ।। -८. शारी. १-१-२ ॥ -९. शारी. ३-२-२५ ॥-१०. छां. ८.४.१॥-११. पुरुषसू.॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy