SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ वेदान्तदीपे [अ. ३. स्थानविशेषात्मकाशादिवत् ।। अपरिमितस्यापि स्थानविशेषसम्बन्धादवच्छिद्यानुसन्धानं युज्यते, प्रकाशाकाशादेरिव विततस्यापि वातायनघटादिना ॥ ३३॥ उपपत्तेश्च ॥ प्राप्यस्यैव परमात्मनः प्रापकत्वोपपत्तेः; यथाह--१“यमेवैष वृणुते तेन लभ्यः" इति ॥ ३४ ॥ तथाऽन्यप्रतिषेधात् ॥ २“यस्मात्परन्नापरमस्ति किश्चिद्यस्मानाणीयो न ज्यायोऽस्ति कश्चित्" इत्यस्मिन्वाक्ये पुरुषादन्यस्य ज्यायस्त्वप्रतिषे धादितोऽधिकन्नास्ति । २“ततो यदुत्तरतरम्" इति तु यतः पुरुषतत्त्वादन्यदुत्कृष्टनास्ति; तत उत्तरतरं पुरुषतत्त्वमेवारूपमनामयम् ; २ ‘य एतद्विदुरम् तास्ते भवन्ति अथेतरे दुःखमेवापि यन्ति" इत्युपक्रमप्रतिक्षातं सहेतुकमुपसंहतम् । २"तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्थाः' इत्युपक्रमे प्रतिज्ञातम् ; अन्यथा उपक्रमविरोधश्च ॥ ३५ ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३" अणोरणीयान्महतो म. हीयान्" २"तेनेदं पूर्ण पुरुषेण सर्वम्' ४'व्याप्य नारायणसिस्थतः" ५ "नित्यं विभुं सर्वगतं सुसूक्ष्मम्" इत्यादिशब्दैरनेन ब्रह्मणा स्वव्यतिरिक्ततत्त्वस्य व्याप्तत्वमवगतम् ; त , तस्मात्परं वारयति ॥ ३६॥ इति वेदान्तसारे पराधिकरणम् ॥ ७ ॥ वेदान्तदीपे-परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ६॥ यतो या इमानि" इत्यादिना जगजन्मादिकारणतया निर्दिष्टात्परस्माब्रह्मणोऽपि परं तत्त्वं किश्चिदस्ति, नेति संशयः । इतोऽपि परमस्तीति पूर्वः पक्षः। ७“अथ य आत्मा स सेतुः" इत्यस्य सेतुत्वव्यपदेशात्, ७"एतं सेतुं तीवो" इत्यस्य तरितव्यत्वोपदेशाचातोऽन्यदप्यस्तीति गम्यते। ८"चतुष्पाब्रह्म" ९"षोडश कलम्"इति परिमितत्वव्यपदेशाचापरिमितमन्यदस्तीति प्रतीयते। १०"अमृतस्यैष सेतुः" इति प्रापकत्वश्रुतेश्चानेन प्राप्यमन्यदस्तीति प्राप्यप्रापकरूपसम्ब. न्धात्प्रतीयते । तथा २ “तेनेदं पूर्ण पुरुषेण सर्वम्" २"ततो यदुत्तरतरम्" इति पुरुषशब्दनिर्दिष्टाब्रह्मण उत्तरतरत्वेन भेदव्यपदेशाचान्यत्परमस्ति । रा. १. मु. ३-२-३॥-२. श्वे. ३-९-१०-८॥ ३. तै.नारा.१.-१॥ ४.पुरुषसूक्त।। -५. मु १-१-६ ॥-६. ते. भृ. १-अनु॥-७. छा. ८-४.१, २॥ -८. छा. ३. १८-२॥-९. प्रश्न, ६-१॥-१.. मु. २-२.५ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy