________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५३
पा. २.]
पराधिकरणम् दिभ्यः-सर्वव्याप्तिवाचिशन्देभ्योऽवगम्यमानमस्मात्परं नास्तीत्यवगमयति।
आयामशब्दस्तावत् १"तेनेदं पूर्ण पुरुषेण सर्वम्" २ "यच किश्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा।अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः" ३"नित्य विभुं सर्वगतं सुसूक्ष्मं यद्भतयोनि परिपश्यन्ति धीराः"। आदिशब्दात् ४"ब्रह्मैवेदं सर्वम्" ५ "आत्मैवेदं सर्वम्" इत्यादयो गृह्यन्ते । अत इदं परं ब्रह्मैव सर्वस्मात्परम् ।। ३६ ॥
___ इति श्रीशारीरकमीमांसाभाष्ये पराधिकरणम् ।। ७ ।।
वेदान्तसारे-परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः॥ ६ जन्माद्यस्य यतः" इत्यादिना ७ प्रतिषेधाच" इत्येतदन्तेन यत्परमकारणं ब्रह्म प्रतिपादितम् ; अतः परमपि किञ्चित्तत्त्वमस्तीति युक्त्याभासेनाशङ्कयते । ८''अथ य आत्मा स सेतुः"८"एतं सेतुं तीवो"९"चतुप्पाबम" १०"अमृत. स्यैष संतः" इत्यादिभिरस्य ब्रह्मणः सेतुत्वतरितव्यत्वपरिमितत्वप्रापकत्वव्यपदेशभ्यः, १"तेनेदं पूर्ण पुरुषेण सर्व" ११ 'ततो यदुत्तरतरम्" इत्येतस्मादर्थान्तरव्यपदेशाश्चान्यत्परमस्तीति ॥ ३०॥
सामान्यात्तु ॥ तुशब्देनैतद्यावर्तयति ; नैतद्युक्तम् ; कुतः११२ न होत. स्मादितिनेत्यन्यत्परमस्ति" इति मूर्तामूर्तप्रपञ्चप्रकारतया तद्विशिष्टात् इति ने. ति निर्दिष्टात् ब्रह्मणोऽन्यत्परनास्तीत्यादिनिषेधसहस्रात् । परस्मिन् ब्रह्मणि सेतुत्वव्यपदेशः प्रशासनात् सर्वलोकासङ्करकरत्वेन सेतुसामान्याचु । तथाह--८"अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भदाय' इति। १३"सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीत" इत्यारभ्य उक्तजगन्निमित्तोपा. दानमतस्यैव ब्रह्मणः १३"एतमितः प्रेत्याभिसम्भविताऽस्मि" इति परमप्राप्यस्ववचनात् तरतिरपि प्राप्तिवचनः ॥ ३१ ॥
बुद्ध्यथः पादवत् ॥ ९ 'चतुष्पात्" इति उन्मानव्यपदेशोऽपि ९ 'वापादः चक्षुः पादः" इतिवदुपासनार्थः ॥ ३२॥
१. श्वे. ३.९ ॥-२. पुरुषसूक्तम् ॥-३. मु. १-१-६ ॥-४. बृ. ४-५-१ ॥५. छा. ७-२५-२ ॥-६. शारी. १-१-२॥-७. शारी. ३.२-२९ ॥--८. छा. ८-४. १, २ ।। -९. छा. ३.१८-२ ॥-१०. मु. २-२-५ ॥-११. वे. ३.१०॥-१२. 1 ४-३-६॥–१३. छा. ३-१४-१, ४॥
For Private And Personal Use Only