________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
श्रीशारीरकमीमांसामाग्वे न. ३ चित-न केनापि प्रकारेण परमस्तीत्यर्थः। तथाऽन्यत्रापि "न ह्येतस्मा. दितिनेत्यन्यत्परमस्ति" इति-इति नेति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यत्परं न यस्तीत्यर्थः। तथा २“न तस्येशे कश्चन तस्य नाम महद्यशः" इति । तद्धि जगदुपादानकारणतयाऽनन्तरमुक्तं ३"सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि" २ "स आपः प्रदुघे उभे इमे" इत्यादिना । ४"अद्भयस्सम्भूतो हिरण्यगर्भ इत्यष्टौ" इति च जगत्कारणं पुरुषमेनं प्रत्यभिज्ञापयति। ५"ततो यदुत्तरतरम्" इति किमुच्यत इतिचेत्-पूर्वत्र ६"वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम्, नान्योऽमृतत्वस्य पन्था इत्युपदिश्य तदुपपादनाय ७“यस्मात्सरं नापरमस्ति किश्चिद्यस्मानाणीयो न ज्यायोऽस्ति कश्चित् ।वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम्" इति पुरुषस्य परत्वं, तद्वयतिरिक्तस्य परत्वासम्भवञ्च प्रतिपाद्य५'ततो यदुत्तरतरं तदरूपमनामयम्य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति" इति पूर्वोक्तमर्थ हेतुतो निगमयति-यदुत्तरतरं पुरुषतत्त्वम् , तदेवारूपमनामयं यतः, ततो य एतत्पुरुषतत्त्वं विदुः, त एवामृता भवन्ति, अथेतरे दुःखमेवापियन्तिइति। अन्यथोपक्रमविरोधोऽनन्तरोक्तिविरोधश्च । ८"परात्परं पुरुषमुपैति दिव्यम्" इति पूर्वत्र ९ "अक्षरात्परतः परः" इति-अक्षरात्-अव्याकृतात् यः परः-समष्टिपुरुषः तस्मात्परो योऽदृश्यत्वादिगुणकस्सर्वज्ञः परमपुरुषः, स एवेहापि 'परात्परः' इति समष्टिपुरुषात्परत्वेनोच्यते ॥ ३५ ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः।३।२।३६॥
अनेन-ब्रह्मणा, सर्वगतत्वम्-सर्वस्य जगतो व्यप्तत्वम्,आयामशब्दा१. न. ४-३-६॥-२. ते. नारा, १-९॥-३. ते.नारा.१-८॥४.ते.नारा.१-११॥ -५. श्वे. ३-१०॥-६. ७. श्वे. ३-८.९॥-८. मु. ३-२-८॥-९. मु. २-१-२॥
For Private And Personal Use Only