________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
पा. २.]
पराधिकरणम्. ब्रह्म"इत्यादिभिर्जगत्कारणस्य ब्रह्मणोऽपरिच्छिन्नत्वावगमात्स्वत उन्मितत्वासम्भवात्।जगत्कारणत्वं हि तस्यैव श्रूयते-१"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" २ "सोऽकामयत बहु स्यां प्रजायेयेति" इति । अतो यथा ३"वाक्पादः प्राणः पादः चक्षुः पादो मनः पादः" इत्यादिना ब्रमणो वागादिपादव्यपदेश उपासनार्थः; एवमयमपि ॥ ३२ ॥
स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानसम्भवः तत्राहस्थानविशेषात्प्रकाशादिवत् । ३।२। ३३ ॥
प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात्तत्सम्बन्धितयोन्मितस्वानुसन्धान सम्भवतिः यथा प्रकाशाकाशादेविततस्य वातायनघटादिस्थानभेदैः परिच्छिद्यानुसन्धानसम्भव इत्यर्थः ॥ ३३ ॥
उपपत्तेश्च । ३।२।३४॥ यदुक्तम्-४"अमृतस्यैषसेतुः" इति प्राप्यमापकसम्बन्धव्यपदेशात्मापकात्परं प्राप्यमस्तीति; तन्न,माप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वोपपत्तेः। ५"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमैवष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इत्यनन्योपायत्वश्रवणात् ॥ ३५॥
तथाऽन्यप्रतिषेधात्। ३।२।३५॥
यत्पुनरुक्तं-६"ततो यदुत्तरतरं" ७"परात्परं पुरुषम्" ८"अक्षरात्परतः परः" इत्यादिभेदव्यपदेशात्परात्परमस्तीति-तन्नोपपद्यते, तवैव ततोऽन्यस्य परस्य प्रतिषेधात्, ९"यस्मात्परं नापरमस्ति किञ्चिद्यस्मानाणीयो न ज्यायोऽस्ति कश्चित्" इति । यस्मादपरं परं नास्ति कि
१. ते. आनं १. अनु. २ ॥ ---२. ते. आनं ६, अनु. २ ॥ -३ छा, ३.१८-२॥ -४. मु. २. २-५॥ -५. मु. ३.२ ३ ॥-६. श्वे. ३. अ. १० ॥---७. मु. ३
२-८॥-८,
मु. २.१.२॥-९. श्वे. ३-९ ॥
For Private And Personal Use Only