________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एवं प्राप्तेऽभिधीयते—
२५०
श्रीशारीरकमीमांसाभाष्ये
[अ. ३.
मस्ति । उन्मानव्यपदेशाच्च - उन्मितं- परिमितम् इदं परं ब्रह्म, १ " चतुष्पाब्रह्म" २" षोडशकलम्" इत्युन्मानव्यपदेशात् । सचायमुन्मानव्यपदेशस्तेन सेतुना प्राप्यस्यानुन्मितस्यास्तितां द्योतयति । तथा सम्बन्धव्यपदेशश्च सेतुसेतुमतोः प्रापकत्वमाप्यत्वलक्षणो दृश्यते, ३" अमृतस्य परं सेतुं दग्धे न्धनमिवानलम् ” ४" अमृतस्यैष सेतुः" इति । अतश्च परात्परमस्ति । भेदेन च परात्परं व्यपदिश्यते, “ परात्परं पुरुषमुपैति " ६" परात्परं य न्महतो महान्तम्” इति । तथा "" तेनेदं पूर्ण पुरुषेण सर्वम्" " ततो यदुत्तरतरं तदरूपमनामयम्" इति । अत एभ्यो हेतुभ्यः परस्माद्रह्मणः परमपि किञ्चिदस्तीति गम्यत इति ॥ ३० ॥
( सिद्धान्तः ) -
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यात्तु । ३ । २ । ३१ ॥
तुशब्दः पक्षं व्यावर्तयतिः यत्तावदुक्तं सेतुव्यपदेशात्परापरमस्तीतिः तन्नोपपद्यते । न ह्ययमत्र किञ्चित्माप्यं प्रति सेतुरुच्यते, ९ “ एषां लोकानामसम्भेदाय" इति सेतुसामान्येन सर्वलोकासङ्करकरत्व श्रुतेः । सिनोति - बध्नाति स्वस्मिन् सर्वे चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुरुच्यते । ९" एतं सेतुं तीर्त्वा" इति तरतिश्च प्राप्तिवचनः । यथा 'वेदान्तं तरति ' इति ॥ ३१ ॥
बुद्ध्यर्थः पादवत् । ३ । २।३२॥
योऽयं १ " चतुष्पाद्ब्रह्म" २ " षोडशकलम् " १० " पादोऽस्यविश्वा भूतानि" इत्युन्मानव्यपदेशः; स बुद्ध्यर्थ: - उपासनार्थः, ११ “सत्यं ज्ञानमनन्तं
१. छा, ३-१८-२ ॥ - २. प्रश्न. ६-१ ॥ - ३. वे. ६-१९।–४. मु. २-२.५ ॥ ५. मु. ३-२-८ ॥ - ६. तै. नारा. १-५ ॥ - ७. वे. ३.९ ॥–८. श्वे. ३-१० ॥ — ९. छा. ८-४-१, २ ॥ १०. पुरुषसू. ॥। ११. तै. आनं १. अनु. १ ॥
For Private And Personal Use Only