________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.
पराधिकरणम् .
पूर्ववदा ॥ बाशब्दः पक्षद्वयव्यावृत्त्यर्थः ; पूर्ववत्-यथा पूर्वत्र १"अंशो नानाव्यपदेशात्" २ "प्रकाशादिवत्तु नैवं परः" इत्युभवव्यपदेशोपपत्तये, ब्रह्मणो निर्दोषत्वसिद्धये च प्रकाशजातिगुणशरीरवत् पृथक्सिध्यनईविशेषणतया जीवस्य ब्रह्मांशत्वमुक्तम् । एवमचिवस्तुनोऽपि । अचिद्वाचिशब्देनाप्यचिवस्तुविशिष्टं ब्रह्मैवाभिधेयमिति ३"आत्मैवेदं सर्वे' ४ 'ब्रह्मैवेद सर्वम्" इत्यभेदव्यपदेशोपपत्तिः। विशेषणविशेष्ययोस्स्वरूपस्वभावभेदज्ञापनाय विशेषणविशेष्यौ निष्कृष्य भेदेन व्यपदेशश्चोपपद्यते।५ 'क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः" इति ब्रह्मणो निर्दोषत्वञ्च ॥ २८ ॥
प्रतिषेधाच्च ।। ६“स वा एष महानज आत्माऽजरोऽमरः, ७'नास्य जरबैतन्जीर्यति . विजरो विमृत्युः” इत्यादिभिः ब्रह्मणोऽचिद्धर्मप्रतिषेधाच विशेषणविशेष्यभावेनैवांशांशिभाव इत्यर्थः ॥ २९॥
इति वेदान्तदीपे अहिकुण्डलाधिकरणम् ॥ ६ ॥ ---(श्रीशारीरकमीमांसाभाष्ये पराधिकरणम् ॥ ७ ॥)...परमतस्सेतुन्मानसम्बन्धभेदव्यप
देशेभ्यः ।३।२।३०॥ इदानीमस्मात्परस्माजगन्निमित्तोपादानरूपपरमकारणात्परब्रह्मणः परमपि किश्चित्तत्वमस्तीति कैश्विद्धत्वाभासैराशङ्काय निराक्रियते,अस्योपास्यस्य निर्दोषत्वानवधिकातिशयासङ्खयेयकल्याणगुणाकरत्वस्थेने । तनेयमाशङ्का-यदिदं परं ब्रह्मोभयलिङ्गम् । एतस्मानिखिलजगत्कारणात्परमपि किश्चिनत्त्वमस्ति । कथम्? ८“अथ य आत्मा स सेतुर्विधतिः" इत्यस्य परस्य सेतुत्वव्यपदेशात् । सेतुशब्दस्य च लोके कूलान्तरमाप्तिहेतौ प्रसिद्धेरितोऽन्यदनेन प्राप्तव्यमस्तीति गम्यते। तथा ९"एतं सेतुं तीर्खा - न्धस्सन्ननन्धो भवति" इति तरितव्यता चास्याभिधीयते; अतश्चान्यत्वाप्य
१. शारी. २-३ ४२॥--२. शारी. २-३-४५ ॥-३. छा. ७-२५-२॥-४. बृ. ४.५-१॥-५, श्वे. ५-१॥-६. बृ. ६-४-२५ ॥-७. छा. ८-१-५॥ -८. छा. ८.४.१ ।।-९. छा. ८.४.२ ॥
*32
For Private And Personal Use Only