________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૪૮ वेदान्तदीपे
[म. ३. तेजस्त्वयोगेन ऐक्यम् ; एवमचिब्रह्मणो श्चैकजातियोगेन ॥२७॥
पूर्ववद्वा ॥ वाशब्दः पक्षद्वयव्यावृत्त्यर्थः ; यथा पूर्वत्र जीवस्य प्रकाशजातिगुणशरीरवद्विशेषणतैकस्वभावतया विशिष्टैकदेशत्वेनांशत्वम् । एवमचिद्वस्तुनोऽपि।१"आत्मैवेदं सर्वम्" इति चिदचितोरेकेनैव शब्देन ऐक्याभिधानमित्यंशत्वमप्येकरूपमिति 'पूर्ववद्वा' इत्युक्तम् । इतरपक्षयोर्ब्रह्मणस्सदो. षतादि दुर्वारमित्यर्थः । २'यस्य पृथिवी शरीरम्" २ “यस्याऽत्मा शरीरम्" इति चिदचिद्वस्तुनोश्शरीरतया तद्विशेषणस्वभावता सिद्धा ॥ २८ ॥
प्रतिषेधाच्च ॥ ३"नास्य जरयैतजीर्यति" इत्यादिनाऽचिद्धर्मप्रतिषेधाश्चैवम् ॥ २९ ॥
इति वेदान्तसारे अहिकुण्डलाधिकरणम् ॥ ६ ॥
वेदान्तदीपे - उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ ४' वावब्रह्मणो रूपे' इत्यादिनोपदिष्टमचिद्वस्तुनो ब्रह्मरूपत्वं किं ब्रह्मस्वरूपस्यैवाचिद्रूपेण परिणामाद्भवति, उत परस्मिन्ब्रह्मण्यचिवस्तुनि चैकजातियोगात् , अथ जीववब्रह्मशरीरतया ब्रह्मविशेषणत्वेनेति संशयः। भिन्नत्वाभिन्नत्वरूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमत इति प्रथमः पक्षः । तथा तु सति ब्रह्मणो निर्दोषत्वादिकं बाध्ये तेत्येकजातियोगेनेति द्वितीयः पक्षः । एवं सति १"आत्मैवेदं सर्वम्"५ "ब्रह्मैवेदं सर्वम्" इति ब्रह्मखरूपस्यैव सर्वशब्दवाच्यत्वव्यपदेशबाधस्स्यात् । नोकैव गोव्यक्तिः 'खण्डो गौः, मुण्डो गौः, पूर्णशृङ्गो गौः' इत्यादिसर्वगोव्यक्तिवाचकशब्दरभिधीयते । अतो जीवस्येव ब्र. मशरीरतया ब्रह्मविशेषणत्वेनाचिद्वस्तुनोऽपि ब्रह्मांशत्वमिति राद्धान्तः। सूत्रार्थस्तु-तुशब्दोऽवधारणे । अहेः कुण्डलभावादिवब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थानम् । कुतः? नानात्वैकत्वोभयव्यपदेशात् ॥ २६॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ वाशब्दोऽनन्तरोक्तव्यावृत्त्यर्थः ; यथा प्रकाशतदाश्रययोः तेजस्त्वेनैकजातियोगादभिन्नत्वं, भिन्नत्वा, एवमचिब्रह्मणोरपि ॥ २७॥
* रेक्यमेकजाति. पा॥१. छा. ७.२५-२॥-२. इ. ५-७-३-२२||---३. डा.८. १-५-४.. ४.३.२॥--५. .. ४-५-१॥
For Private And Personal Use Only