________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. २. ]
२४७
ब्रह्मस्वरूपस्यैवाचिद्दन्यरूपत्वादुक्तदोषादनिर्मोक्षः । अथ प्रभा तदाश्रययोरिवाचिद्रह्मणोर्ब्रह्मत्वजातियोगमात्रम् ; एवं तर्ह्यश्वत्व गोत्ववद्ब्रह्मापीश्वरे चिदचिद्वस्तुनोचानुवर्तमानं सामान्यमिति सकलश्रुतिस्मृतिव्यवहारविरोधः । पूर्ववदेव ? " अंशो नानाव्यपदेशात् " २ " प्रकाशादिवन्तु नैवं परः " इति जीववत्पृथक्सियन र्हविशेषणत्वेनाचिद्वस्तुनो ब्रह्मांशत्वम् ; विशि ष्टवस्त्वेकदेशत्वेनाभेदव्यवहारो मुख्यः, विशेषणविशेष्ययोः स्वरूपस्वभावभेदेन भेदव्यवहारो मुख्यः, ब्रह्मणो निर्दोषत्वं च रक्षितम् । तदेवं प्रकाशजातिगुणशरीराणां मणिव्यक्तिगुण्यात्मनः प्रत्यपृथक्सिद्धिलक्षणविशेषणतया यथांशत्वम्; तथेह जीवस्याचिद्वस्तुनश्च ब्रह्म प्रत्यंशत्वम् ||२८ प्रतिषेधाच्च । ३ । २ । २९॥
३स वा एष महान आत्माऽजरोऽमरः ४ " नास्य जरयैतज्जीर्यति" इत्यादिभिः ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यत्वेनैवांशांशिभाव इत्यर्थः । अतस्सूक्ष्मचिदचिद्वस्तुविशिष्टं कारणभूतं ब्रह्म, स्थूलचिदचिद्वस्तुविशिष्टं कार्यभूतं ब्रह्मेति कारणात्कार्यस्यानन्यत्वम्, कारणभूतत्रविज्ञानेन कार्यस्य ज्ञाततेत्यादि सर्वमुपपन्नम् ब्रह्मणो निर्दोषत्वं च रक्षितम् । ब्रह्मणो निर्दोषत्वेन कल्याणगुणाकरत्वेनचोभयलिङ्गत्वमपि सिद्धम् ॥ २९ ॥
इति श्री शारीरकमीमांसाभाष्ये अहिकुण्डलाधिकरणम् ॥ ६ ॥
अहिकुण्डलाधिकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे— उभयव्यपदेशावहिकुण्डलवत्।। ५ "आत्मैवेदं सर्वम्" ६ “अस्मान्मायी सृजते” इत्येकत्वनानात्वव्यपदेशात् अहेः कुण्डलभावादिवत् ब्रह्मस्वरूपस्यैव ७' ' द्वे वाव ब्रह्मणो रूपे" इत्यादिनोक्तः पृथिव्यादिभावः ॥२६॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ प्रकाशतदाश्रययोर्यथा स्वरूपभेदेऽपि
१. शारी, २-३-४२ ॥ - २. शारी. २-३-४५॥ - ३ बृ. ६-४२५॥४.छा.८१-५॥--५. छा. ७-२५-२ ॥ - ६, वे. ४-९ ॥ ७ बृ. ३-३-१ ॥
For Private And Personal Use Only