________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६ श्रीशारीरकमीमांसाभाज्ये
अ. ३. १“अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्य तेषामेष सत्यम्" इति प्राणशब्दनिर्दिष्टेभ्यश्चेतनेभ्योऽप्येष सत्यमिति कदाचिदपि ज्ञानादिसङ्को चाभावादुक्तम्।तथा२ "प्रधानक्षेत्रज्ञपतिर्गुणेश:"३"पतिं विश्वस्याऽत्मेश्वर" ४ "नित्यो नित्यानां चेतनश्चेतनानाम् " इत्यादिश्रुतेश्चायमर्थोऽवगम्यते । तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते, ब्रह्मणो निर्दोषत्वीसख्यर्थम्-किमस्याचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन,उत प्रभाप्रभावतोरिवैकजातियोगेन,उत जीवस्येव विशेषणविशेष्यतयांशांशिभावेन-इति। इह स्थाप्यमानं विशेषणविशेष्यभावमङ्गीकृत्य ५"प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्" ६"तदनन्यत्वमारम्भणशब्दादिभ्यः" इत्यत्र सूक्ष्मचिदचिदस्तुविशिष्टाद्ब्रह्मणः स्थूलचिदचिद्वस्तुविशिष्टस्योत्पत्तिरनन्यत्वं चोक्तम् । किं युक्तम्? अहिकुण्डलवदिति; कुतः उभयव्यपदेशात् ७"ब्रह्मेवेदं सर्वम्"
"मात्मैवेदं सर्वम्" इति तादात्म्यव्यपदेशात् , ९ "हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनाऽत्मनाऽनुपविश्य" इत्यादिभेदव्यपदेशाच्च । अहेः कुण्डलभाव ऋजुभाववत् तस्यैव ब्रह्मणस्संस्थानविशेषा एवाचिद्वस्तूनि।। प्रकाशाश्रयवहा तेजस्त्वात् । ३।२।२७॥
वाशब्दः पक्षव्यावृत्त्यर्थः; ब्रह्मस्वरूपस्यैवाचिद्रपेणावस्थाने भेदश्रुतयो ब्रह्मणोऽपरिणामित्ववादिन्योऽपि बाधिता भवेयुः, अतो यथा तेजस्त्वेन प्रभातदाश्रययोरपि तादात्म्यम् एवमचित्प्रपञ्चस्य ब्रह्मणो रूपत्वमित्यर्थः ॥ २७॥
पूर्ववहा । ३।२।२८॥ वाशब्दः पक्षद्वयव्यावृत्त्यर्थः । एकस्यैव द्रव्यस्यावस्थाविशेषयोगे
१ वृ. ४-३-६ ॥–२. वे. ६-१६ ॥–३. ते. ना. ३-अनु ॥---४. श्वे. ६. १३॥-५. शारी. १-४-२३ ॥-६. शारी. २-१-१५॥-७. . ४.५-१॥-८. छा. ७-२५-२॥-९. छा. ६-३-२ ॥--* रज्जु. पा॥
For Private And Personal Use Only