________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४५
पा. २.] अहिकुण्डलाधिकरणम् . मस्य" इत्यादिका ॥२२॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ अपिच संराधन एवोपलभ्यते; संराधनं सम्यक्प्रीतियुक्तं भजनम् , उपासनमिति यावत् । उपासना पतत्प्रीणनेन विना केनापि नोपलभ्यत इति श्रुतिस्मृतिभ्यामवगम्यते । १"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यः" २"नाहं वेदैर्न तपसा न दानेन न चेज्यया...भक्त्या त्वनन्यया शक्यः" इति हि श्रुतिस्मृती। अतः केनापि प्रमाणेनानभिव्यक्तस्वरूपत्वाब्रह्मणः ३“द्वे वा. व ब्रह्मणो रूपे" इत्यादिना ब्रह्मणः प्रकारतयोपदिष्टं जगदैश्वर्य ४ 'नेतिनेति" इति न निषिध्यते ; किन्तु प्रकृतेयत्तामात्रं तु निषिध्यते ॥ २३ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ इतश्च शानानन्दवजगदैश्वर्यमपि ब्रह्मणो रूपम् ; येषां वामदेवादीनां संराधनरूपकर्मण्यभ्यासात्प्रकाशश्च सञ्जातः-दर्शनं सञ्जातम् ; तेषां दर्शने प्रकाशादिवत् शानादेरिव जगदैश्वर्यस्याप्यवैशेष्यं प्रतीयते , ५'तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च" ६ "अहं कक्षीवान" इत्यादौ ॥ २४ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ अतोऽनन्तेन कल्याणगुणगणेन योगो ब्रह्मणस्सिद्धः । तथा सत्युभयलिङ्गमेव ब्रह्म ॥ २५ ॥
इति वेदान्तदीपे उभयलिङ्गाधिकरणम् ॥ ५ ॥
..(श्रीशारीरकमीमांसाभाष्ये अहिकुण्डलाधिकरणम् ॥ ६॥..उभयव्यपदेशात्त्वहिकण्डलवत् ।३।२।२६ ॥
मृर्तामृर्तात्मकस्य अचित्प्रपञ्चस्य ब्रह्मणो रूपत्वं३ "द्वे वाव ब्रह्मणो रूपे" इत्यादिनोपदिश्यते । ४“अथात आदेशो नेतिनेति" इति मूर्तामूर्ताचिदस्तुरूपतया ब्रह्मण इयत्ता प्रतिषिध्यते । ४"नह्येतस्मादितिनेत्यन्यत्परमस्ति" इति ब्रह्मणोऽन्यदुत्कृष्टं नास्तीति प्रतिपादितम् । तदुपपादनाय
१. ३. कठ. २-२३ ॥-२. गी. १३-५३, ५४॥-३. ३. ४-३-१-६॥-४. . ४-३.६॥-५. बु. ३-४-१०॥-६॥
For Private And Personal Use Only