________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४ वेदान्तदीपे
[म. ३. घटकरकादिषु विषमेववस्थितमाकाशं, १'जलाधारेग्विांशुमान्" इति चांशुमन्तं परमार्थतस्स्थितमनवस्थितं चोभयं दृष्टान्ततयोपादाय १"तथाऽऽत्मैको ह्यनेकस्थः" इति निगमनात् तत्तत्स्थानप्रयुक्तवृद्धिहासभाक्त्वनिवर्तनमात्रं विवक्षितमित्यवगम्यते। अन्यत्रापि दृष्टान्तदान्तिकयोस्सर्वसाम्याभावेऽपि 'सिं. ह इव माणवकः" इत्यादिषु दृष्टान्तोपादानदर्शनाश्चैवमवगम्यते ॥ २० ॥
२“अथात आदेशो नेतिनेति" इत्यादिना पूर्वप्रकृतस्य मूर्तामूर्तप्रपक्षस्य ब्रह्मणो रूपत्वप्रतिषेधानिष्प्रपञ्चं सन्मात्रमेव ब्रह्म ; न पुनरुक्तस्वरूपमुभयलिङ्गमित्याशङ्कयाह
प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीतिच भूयः॥ हीति - हेतौ । ३' वाव ब्रह्मणो रूपे मूर्त चामूर्तमेवच" इत्यादिना स्थूलस्य सूक्ष्मस्य च प्र. पञ्चस्य ब्रह्मणो रूपतया प्रमाणान्तराप्रज्ञातस्य अत्रैव रूपतयोपदिष्टस्य निषे. धासम्भवात् प्रकृतैतावत्त्वं हि ब्रह्मणः प्रतिषेधति, पूर्वप्रकृतैतावन्मानं न भवति ब्रह्मेतिहि ४"अथात आदेशो नेतिनेति" इत्यत्र प्रतिपाद्यत इत्यर्थः । ततो ब्रवीति च भूयः-ततः-पूर्वोक्ताद्भयस्त्वं ब्रवीति च वाक्यशेषः, ४"नोतस्मा. दितिनेत्यन्यत्परमस्ति अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्" इति–इति नेति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यन्नास्ति; परब्रह्मणोऽन्यस्वरूपतो गुणतश्चोत्कृष्टं न हस्तीत्यर्थः । ४"सत्यस्य सत्यम्" इति ब्रह्मणो नामधेयम् , तस्य निर्वचनम् –४"प्राणा वै सत्यं तेषामेष सत्यम्" इति । प्राणसाहचर्याजीवात्मानः प्राणाः। ते हि वियदादिवदनुत्पाद्यत्वेन सत्यम् । तेभ्बोऽप्येष सत्यम्,ते हि कर्मानुगुणदेहयोगेन जन्मवन्तः; तदप्यस्य नास्तीति तेषामेष सत्यम् , ज्ञानसङ्कोचविकासरूपविकारस्याप्यसम्भवात् । अतः प्रमाणान्तराप्रज्ञातखरूपस्य ब्रह्मणो मूर्तामूर्तप्रपञ्चप्रकारतयोपदेशात् ,पुनरपि प्रकारविशेषोपदेशाच, ४"अथात आदेशो नेतिनेति" इति पूर्वप्रकृतेयत्ता ब्रह्मणः प्रतिषिध्यत इत्यर्थः ।। २१॥
ननु च वस्तुतः प्रत्यक्षेण निर्विशेषसन्मात्रमेव गृह्यते तदतिरिक्तं भ्रान्स्या प्रतीयमानं सविशेषरूपमनूध ५"नेतिनेति" इति निषिध्यत इत्यत्राह
तदव्यक्तमाह हि ।। ब्रह्मणः प्रमाणान्तराप्रशाततां द्रढयति; तत् ब्रह्म न केनापि प्रमाणेन व्यक्तम् ; तथा आह हि श्रुतिः-६'न संदृशे तिष्ठति रूप
१. याज्ञवल्क्य. प्रायश्चित्त. अध्यात्म. १४४ ॥–२. पू. ४-३.६ ॥-३. १.४. ३-१॥-४. पृ. ४-३-६ ॥–५. ते, ना. अम्भस्. ३ ॥
For Private And Personal Use Only