SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] उभयलिङ्गाधिकरणम्. प्रकाशवच्चावैयर्थ्यात् ॥ यथा १" सत्यं ज्ञानम्" इति वाक्यवैियर्थ्यां त्प्रकाशो ब्रह्मणस्वरूपमित्यवगम्यते ; तथा २" यस्सर्वज्ञस्सर्ववित्" ३" पराsस्य शक्तिर्विविधैव श्रूयते" इत्यादिवाक्यावैयर्थ्यात्कल्याणगुणाकरत्वं च ब्रह्मणस्स्वरूपमित्यवगम्यते इत्युभयलिङ्गमेव ॥ १५ ॥ Acharya Shri Kailassagarsuri Gyanmandir २४३ आह च तन्मात्रम् || १ " सत्यं ज्ञानम्” इति वाक्यं ब्रह्मणो ज्ञानं स्वरूपमित्येतावन्मात्रमाह ; न पुनः कल्याणगुणाकरत्वं निषेधति ॥ १६ ॥ दर्शयति चाथो अपि स्मर्यते । दर्शयति च वेदान्तवाक्यगणो निरस्त निखिल दोषत्वं कल्याणगुणाकरत्वं च ३" निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" ५' " तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम्” इत्यादिकः । स्मर्यते च ६' यो मामजमनादि च वेत्ति लोकमहेश्वरम्” ७ “अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्" इत्यादिषु ॥ १७॥ अत एव चोपमा सूर्यकादिवत् । यतो ब्रह्मणो निरस्तनिखिल दोषत्वकल्याणगुणाकरत्वेनोभयलिङ्गत्वात् पृथिव्यादिस्थानतोऽपि न तत्तत्प्रयुक्तदोषगन्धसम्भवः ; अत एव शास्त्रेषु च जलसूर्यकाद्युपमा क्रियते ' ' आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैको ह्यनेकस्था जलाधारेष्विवांशुमान्" इ त्यादिषु ॥ १८ ॥ For Private And Personal Use Only अम्बुवदग्रहणात्तु न तथात्वम् || तुशब्दश्वोद्यं द्योतयति ; अम्बुनीवाग्रहणात् ; यथाऽम्बुनि सूर्यः तत्रानवस्थित एव भ्रान्त्या तत्र स्थित इव गृह्यते; न तथा परमात्मा पृथिव्यादौ गृह्यते; ९" यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः " इति परमार्थतस्थितो गृह्यते ; अतो न तथात्वं-न सूर्यस्येव तत्प्रयुक्तदोषगन्धाभावः परमात्मनः, परमार्थतस्स्थितत्वात् ॥ १९ ॥ वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ॥ पृथिव्यादिषु विषमेषु स्थानेषु स्थितस्यापि परमात्मन तदन्तर्भावात्-तत्रावस्थानतः तत्प्रयुक्तवृद्धिहासभाक्त्वं ८" जलाधारेष्विवांशुमान्" इति दृष्टान्तेन निवर्त्यते । कुतोऽवगम्यते एतावन्मात्रमिति ; उभयसामञ्जस्यादेवम् – उभयदृष्टान्तोपादानसामञ्जस्यादेवमवगम्यते । ८' 'आकाशमेकं हि यथा घटादिषु पृथग्भवेत्” इति १. तै. आ. १-१ - ॥ २. मु. १-१-९॥ — -३. वे. ६-८ ॥ - ४. वे. ६-१९॥– ५. श्वे. ६-७ ॥—६. गी. १०-३ ॥ - ७. गी. ७-६ ॥ - ८. याज्ञवल्क्य. प्रायश्चित्त. अध्यात्मप्र १४४ ॥ ९ ५-७-३ ॥
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy