________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२ वेदान्तदीपे
[अ. ३. स्थितस्यापि परस्य ब्रह्मणः जीवस्य तत्रतत्रावस्थितस्य ये दोषा उक्ताः, ते न स. म्भवन्ति ; कुतः ? उभयलिङ्गं सर्वत्र-हिहेतौ, यतस्सर्वत्र श्रुतिस्मृतिषु निरस्तनिखिलदोषत्वसमस्तकल्याणगुणात्मकत्वरूपोभयलिङ्गम् उभयलक्षणं परं ब्रह्मावगतम् ॥ ११॥
भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ यथा जीवस्य खतोऽपहतपा. प्मत्वादिगुणकस्यापि देवादिशरीरसम्बन्धितयाऽवस्थाभेदादुक्तदोषसम्बन्धित्वम् ; एवं परस्यापि १“यस्य पृथिवी शरीरम्" इति शरीरसम्बन्धित्वावस्थाभेदात्ते दोषास्स्युरिति चेत्-न,प्रत्येकं प्रतिपर्यायम , अतद्वचनात् - दोषासम्बन्धित्ववचनात् । १“यस्य पृथिवी शरीरम्" इत्यादिषु १"एष त आत्माऽ. न्तर्याम्यमृतः' इत्यन्तर्यामिणो हि निर्दोषत्वमुच्यते; जीवस्य तु पराभिध्यानात्तत्स्वरूपं तिरोहितमित्युक्तम् । अतश्शरीरसम्बन्धित्वेऽपि परस्यैते न दोषाः॥१२॥
अपिचैवमेके ।। अपि च यदिदं जीवपरयोरेकस्मिन् शरीरे शरीरित्वेनावस्थितयोर्दोषसम्बन्धित्वं तद्विपतित्वं चोक्तम् , एवमेके शाखिनस्वशब्देनाधीयते-२ “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" इति ॥ १३ ॥
मनुष्यादिशरीरेषु शरीरित्वमेव जीवस्य नामरूपभाक्वेन कर्मवश्यताहेतुः, तत्परस्याप्यविशिष्टं चेत् कथं परस्य ब्रह्मणोऽकर्मवश्यत्वेन कर्मफलानशनमुच्यते-इत्यत आह
अरूपवदेव हि तत्प्रधानत्वात् ॥ मनुष्यादिशरीरेषु शरीरित्वेऽप्यरूपवदेव हि तत् परं ब्रह्म ; कुतः १ प्रधानत्वात् निर्वाहकत्वात् ; जीवस्य नामरूपभाक्त्वेन कर्मफलाशनं निर्वोढुं परस्य तत्तच्छरीरे शरीरित्वेनावस्थानम् । यथाह-१ “यस्य पृथिवी शरीरम्" ३'यस्याऽत्मा शरीरम्...आत्मानमन्तरो यमयति' ४'अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" "५आकाशो हवै नामरूपयोर्निर्वहिता ते यदन्तरा तब्रह्म" इति । अत उभयलिङ्गमेव परं ब्रह्म ॥१४॥
६'सत्यं ज्ञानमनन्तं ब्रह्म" इति प्रकाशैकवरूपता ब्रह्मण उच्यते, कथमुभयलिङ्गत्वमित्यत आह
१. व. १-७-३-२२, १८, २३, ॥-२. मु. ३-१-१ ॥ --३. बु. ५-७-२२॥४. आरणम्. ३.प्र. २१-५ ॥-५. छा. ८-१४-१ ॥-६. . आ. १-१॥
For Private And Personal Use Only