________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४१
पा. २.]
उभयलिङ्गाधिकरणम् ऽऽह हि श्रुतिगणः, १"न सन्डशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्" इत्यादिः । प्रत्यक्षादिना तु पटादेरेवास्तित्वं गृह्यते; न ब्रह्मणः ॥२२॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ *अपिचात्यर्थप्रियानुभ्यानरूपसम्यक्प्रीणने सति ब्रह्मस्वरूपं गृह्यत इति श्रुतिस्मृतिभ्यामवगम्यते। २"ना. यमात्मा प्रवचनेन लभ्यः" इति श्रुतिः । ३"नाहं वेदैः” इत्यादिस्मृतिः॥ २३॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात्॥ संराधनकर्मण्यभ्यासात् येषां ब्रह्मस्वरूपदर्शनं जातम् । तद्दर्शने ज्ञानानन्दादेरिव जगदैश्वर्यस्यावशेष्यं प्रतीयते ४"अहं मनुरभवं सूर्यश्च" इत्यादौ ॥ २४ ॥
___ अतोऽनन्तेन तथाहि लिङ्गम् ॥ अतः ५"वे वाव ब्रह्मणो रूपे" इस्यादिनोपदिष्टेनानन्तेन कल्याणगुणगणेन योगो ब्रह्मणस्सिद्धः। तथा सत्युभयलिङ्गमेव ब्रह्म ॥ २५॥
इति वेदान्तसारे उभयलिङ्गाधिकरणम् ॥ ५ ॥
वेदान्तदीपे-न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ कि जीवस्येव तदन्तर्यामिणः परस्य ब्रह्मणोऽपि जागरादिस्थानप्रयुक्तदोषास्सम्भव न्ति, उत नेति संशयः । ६"यः पृथिव्यां तिष्ठन्" ६" य आत्मनि तिष्ठन् ': ६ 'यश्चक्षुषि तिष्ठर" ६ 'यो रेतसि तिष्ठन्" इत्यादिना जीवस्येव सर्वावस्था. खवस्थितिवचनात् छन्दतोऽपि पूयशोणितादिमजनमपुरुषार्थ एवेति सर्वे दो. पास्सम्भवन्तीति पूर्वः पक्षः । राद्धान्तस्तु-७"अपहतपाप्मा विजरः' ८"निरवद्यं निरञ्जनम्" ७ 'सत्यकामस्सत्यसङ्कल्प;" ९“यस्सर्वज्ञस्सर्ववित्' १० “यो मामजमनादि च वेत्ति लोकमहेश्वरम्' ११“परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे इत्यादिश्रुतिस्मृतिभ्यो निरस्तनिखिलदोषगन्धतासाश्यसत्यसङ्कल्पत्वाद्युभयलक्षणवरूपावगतेः परस्य ब्रह्मणस्सर्वत्रान्तर्यामितयाऽवस्थितस्यापि न दोषगन्धस्सम्भवंति ; अपि तु सर्वनियमनरूपलीला रस एव॥
सूत्रार्थस्तु-न स्थानतोऽपि परस्य-पृथिव्यात्मादिग्वन्तर्यामितयाऽव१. ते, ना. अम्भसू ॥-२. मु. ३-२-३॥---३. गी.११-५४॥-४. पृ. ३-४-१०॥ ५. 1. ४-३-१॥-६. बु. ५-७-३.२२,१८,२३॥--७. छा. ८-१ ५॥-८.श्वे.६-१९॥ ९.मु.१.१-९॥-१०. गी-१०-३॥-११. वि.पु.६-५-८५॥*अपि अपिचेत्यर्थः। प्रियानु.पा
.31
For Private And Personal Use Only