________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४०
वेदान्तसारे
[अ. ३.
I
"
अम्बुवदग्रहणात्तु न तथात्वम् || अम्बुनि सूर्यो यथा गृह्यते, न तथा परमात्मा पृथिव्यादौ ; अत्र परमार्थतस्स्थितः; अतो न निर्दोषत्वमिति ॥ वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ।। नेति वर्तते । नैवम् पृथिव्यादिष्वन्तर्भावात् परस्य तद्गतवृद्धिहासभाक्त्वं दृष्टान्तेनिवर्त्यते इत्युभयदृष्टान्तोपादानसामञ्जस्यादवगम्यते । १" आकाशमेकं हि यथा" इति वस्तुतस्थितमाकाशं, वस्तुतोऽनवस्थितञ्च सूर्यकमुभयमुपाद ते । अनवस्थितस्य यथा न दोषस्पर्शः ; तथा स्थितस्यापि हेत्वभावादिति शा पयितुम् । विवक्षितधर्मसाम्यज्ञापनाय सिंह इवेति दृष्टान्तो दृश्यते । अथवा दर्शनाचेति, २ ' अश्व इव रोमाणि विधूय पापम्" इत्यादौ विवक्षित साम्यान्वयो दान्तिके हि दृश्यते । अश्वो हि रोमाणि सहजानि स्वावयवभूतानि मू
द्रव्याणि स्वशरीरं कम्पयन् कानिचिन्मुञ्चति ; अत्मा तु स्वेन कदाचिदनुष्ठितानि क्षणध्वंसितया विनष्टानि कर्माणि भगवद्प्रीतिकराणीति भगवता स्वाप्रीतिकृतदुःखानि दातुं प्रवृत्तेन उपासनप्रीतिकृतानुग्रहानिवर्तितानीति तत्सम्पर्कभावमनुसन्दधाति ॥ २० ॥
३ "अथात आदेशो नेति नेति" इति सकलविशेषप्रतिषेधान्नोभयलिङ्गमित्यत आह
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः। ४ " द्वे वाव ब्रह्मणो रूपे" इत्यारभ्य, कृत्स्नप्रपञ्चस्य ब्रह्मणो रूपत्वेनाप्रज्ञातस्य रूपत्वमुपदिश्य, पुनस्तस्यैव प्रतिषेधासम्भवात् प्रकृतैतावन्मात्र न भवतिः ब्रह्मेति ब्रह्मणः प्रकृतेयत्तां ३" नेति नेति" इति प्रतिषेधति ; ततः पश्चात् पूर्वमनुक्तं गुणगणं ब्रवीति च - ३" नह्येतस्मादितिनेत्यन्यत्परमस्ति" इति । इति नेति निर्दिष्टाब्रह्मणोऽन्यन्नास्तीत्युत्कृष्टम् ; ३" अथ नामधेयं सत्यस्य सत्यम्” इति च । तनिर्वचनम् ३ ' ' प्राणा वै सत्यं तेषामेष सत्यम्” इति । प्राणाः – जीवात्मानः वि यदादिवदुत्पत्त्यभावात्सत्यम् ; तेभ्योऽप्येष सत्यं, ज्ञानसङ्कोचाद्यभावात् । अतः प्रकृतेयत्ताप्रतिषेधादुभयलिङ्गमेव ॥ २१ ॥
प्रत्यक्षेण सन्मात्रं ब्रह्मैव गृह्यते, अन्यत्सर्वे भ्रान्तमिति, ३ नेति नेति” इति निषेधार्थ इत्यत आह
तदव्यक्तमाह हि || ब्रह्मस्वरूपं न केनापि प्रमाणेन व्यज्यते ; तथा
१. याज्ञवल्क्य प्रायश्चित्त अध्यात्मप्र. १४४ ॥२. छा. ८-१३-१ ।। – ३. बृ ४-३-६ ॥ - ४, बृ. ४-३-१ ॥
For Private And Personal Use Only