________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उक्तः,
पा. २ ]
उभयलिङ्गाधिकरणम्
भेदादिति चेन प्रत्येकमतद्वचनात् || जीवस्य स्वतो ऽपहतपाप्मनोऽपि शरीरसम्बन्धित्वावस्थाभेदाद्यथा दोषसम्बन्धः, तथा परस्यापि १ " यस्य पृथिवी शरीरम्" इत्यादिशरीरसम्बन्धित्वाद्दोष इति चेत् न, १" यस्य पृथिवी शरीरम्" इत्यादिषु प्रतिपर्यायं २" स त आत्माऽन्तर्याम्यमृतः” इति निर्दोषत्ववचनात् ॥ १२ ॥
अपि चैवमेके || एकस्मिन् शरीरेऽवस्थितयोर्जीवपरयोर्यो विशेष एवमेके स्वशब्देनाधीयते - ३ " द्वा सुपर्णा" इत्यारभ्य, ३" पिप्पलं स्वाइत्यनश्नन्नन्योऽभिचाकाशीति" इति ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२३९
अरूपवदेव हि तत्प्रधानत्वात् ।। मनुष्यादिशरीरेषु शरीरित्वेऽपि रूपरहितवस्तुवदेव वर्तते तत् ब्रह्म, जीवनामरूपयोरपि निर्वोदृत्वेन प्रधानत्वात् । तथाहि श्रुतिः, ४' 'नामरूपयोर्निर्वहिता ते यदन्तरा" इति नामरूपयोरन्तरा अस्पृष्टो मध्ये वर्तते, अवश्य इत्यर्थः ॥ १४ ॥
प्रकाशवञ्चावैयर्थ्यात् ॥ यथा ५" सत्यं ज्ञानम्" इति वाक्यावैयर्थ्यात् स्वप्रकाशतया ज्ञानस्वरूपं ब्रह्म ; तथा ६" निरवद्यम् " ७"यस्सर्वशः " ८''पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्यादिपरश्शतवाक्यावैयर्थ्यात् निरवद्यं कल्याणगुणाकरश्चेत्युभयलिङ्गमेव ॥ १५ ॥
आह च तन्मात्रम् ।। ५" सत्यं ज्ञानम्" इति ज्ञानस्वरूपतामात्रमाह, नाम्यन्निवारयति, अविशेषात्, विरोधाभावाच्च ॥ १६ ॥
दर्शयति चाथो अपि स्मर्यते । दर्शयति च निर्दोषत्वं कल्याणगुणाकरत्वञ्च वेदान्तगणः ६'' निष्कलं निष्क्रियं शान्तम्" ९" तमीश्वराणाम् " इत्यादिः ; १०" यो मामजमनादिम्" इत्यादिना स्मर्यते च तत् ॥ १७ ॥
अत एवचोपमा सूर्यकादिवत् ॥ यतः पृथिव्यादौ सर्वत्र स्थितस्यापि निर्दोषत्वं कल्याणगुणाकरत्वच; अत एव शास्त्रेषु जलसूर्यकादिवदित्युपमा ११' आकाशमेकं हि यथा.. जलाधारेष्विवांशुमान्" इति ॥ १८ ॥
चोदयति
For Private And Personal Use Only
१ बृ. ५-७-३ ॥ -२ बु. ५.७.३.२३ ॥ - -- ३.मु. ३.१-१॥ -- ४. छा. ८-१४- १॥ - ५. ते. आ. १-१॥ ६. वे. ६-१९ ॥ - ७. मु. १-१-९॥८. वे. ६-८॥ ९. वे. ६-७ ॥-१०. गी. १०३ ॥ - ११ याज्ञवल्क्य प्रायश्चित्त. अध्यात्म प्र. १४४ ॥