________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८ घेदान्तसारे
[म. ३. शास्त्रं ब्रह्मणो मूर्तामूर्तरूपद्वयादिविशिष्टतां प्रागसिद्धां नानुवदितुं क्षमम् ॥२३॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्म
ण्यभ्यासात्।३।२।२४॥ इतश्च प्रकृतैतावत्त्वमेव प्रतिषेधति ; न मूर्तामूर्तादिविशिष्टत्वम् । यतस्साक्षात्कृतपरब्रह्मवरूपाणां वामदेवादीनां दर्शने प्रकाशादिवत्ज्ञानानन्दादिस्वरूपवन्मूादिप्रपञ्चविशिष्टताया अपि ब्रह्मगुणत्वावैशेव्यं प्रतीयते-१"तदेतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च" इत्यादि । ब्रह्मखरूपभूतप्रकाशानन्दादिश्च तेषां वामदेवादीनां संराधना. स्मके कर्मण्यभ्यासादुपलभ्यते । तद्वचाभ्यस्तसंराधनानां तेषां मृर्तामतादिविशिष्टत्वमप्यविशेषेण प्रतीयत इत्यर्थः ॥२४॥ ___ उक्तं ब्रह्मण उभयलिङ्गत्वमुपसंहरतिअतोऽनन्तेन तथाहि लिङ्गम् । ३।२।२५॥
अतः-उक्तैहेतुभिर्ब्रह्मणः अनन्तेन कल्याणगुणगणेन विशिष्टत्वं सिद्धम् । तथा हि सत्युभयलिङ्गं ब्रह्मोपपन्नं भवति ॥२५॥
इति श्रीशारीरकमीमांसाभाष्ये उभयलिङ्गाधिकरणम् ॥ ५ ॥
वेदान्तसारे-न स्थानतोऽपि परस्योभयलिङ्गं सर्वत हि ॥ जागरादिषु चतसृम्ववस्थाखन्तर्यामित्वेन स्थितेरपि परस्य ब्रह्मणो न कश्चन दोषः ; यतस्सर्वत्र श्रुतिस्मृतिषु निरस्तनिखिलदोषसम्बन्धत्वसमस्तकल्याणगुणाकरस्वरूपोभयलिङ्गं परं ब्रह्म श्रुतम्-२"अपहतपाप्मा...सस्यसङ्कल्पः" ३"निरवधम्" "यस्सर्वशस्सर्ववित्" ५"समस्तकल्याणगुणात्मकोऽसौ" "सकला न यत्र क्लेशादयः” इत्यादिषु ॥ ११ ॥
१. २. ३-४-१०॥--२. छा, ८.१-५ ॥-३. श्वे. ६-१९॥-४. मु. १-१-९॥ -५, ६. वि. पु. ६-५-८४, ८५ ॥
For Private And Personal Use Only