________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. २. ]
उभयलिङ्गाधिकरणम्
२३५
काशस्य, वस्तुतोऽनवस्थितस्यांशुमत चोभयस्य दृष्टान्तस्योपादानं हि परमात्मनः पृथिव्यादिगतदोषभाक्त्वनिवर्तनमात्रे प्रतिपाद्ये समञ्जसं भवति । घटकरकादिषु यथा वृद्धिहासभाक्षु पृथक्पृथक्संयुज्यमानमप्याकाशं वृद्धिहासादिदोषैर्न स्पृश्यते; यथा च जलाधारेषु विषमेषु दृश्यमानोंऽनुमान् तद्गतदृद्धिहासादिभिर्न स्पृश्यते; तथाऽयं परमात्मा पृथिव्यादिषु नानाकारेष्वचेतनेषु चेतनेषु च स्थितस्तत्तद्गतवृद्धिहासादिदोषैर संस्पृष्टस्सर्वल वर्तमानोऽप्येक एवास्पृष्टदोषगन्धः कल्याणगुणाकर एव। एतदुक्तं भवति - यथा जलादिषु वस्तुतोऽनवस्थितस्यांशुमतो हेत्वभावाज्जलादिदोषानभिष्वङ्गः, तथा पृथिव्यादिष्ववस्थितस्यापि परमात्मनो दोषप्रत्यनीकाकारतया दोषहेत्वभावान्न दोषसम्बन्धः - इति । दर्शनाच्च दृश्यते चैवं सर्वात्मना साधर्म्याभावेऽपि विवक्षितांशसाधर्म्यादृष्टान्तोपादानं, सिंह इव माणवक इत्यादौ । अतः स्वभावतो निरस्तनिखिलाज्ञानादिदोषगन्धस्य समस्तकल्याणगुणाकरस्य पृथिव्यादिस्थानतोऽपि न दोषसम्भवः ॥ २० ॥
अथ स्यात् - १" द्वे वाव ब्रह्मणो रूपे मूर्ते चामूर्तमेवच" इति प्रकृत्य समस्तं स्थूलसूक्ष्मरूपं प्रपञ्चं ब्रह्मणो रूपत्वेन परामृश्य २" तस्य ह वा एतस्य पुरुषस्य रूपं यथा माहारजनं वासः" इत्यादिना आकारविशेपं चाभिधाय २" अथात आदेशो नेतिनेति नह्येतस्मादितिनेत्यन्यत्परमस्वि" इति सर्वे प्रकृतं ब्रह्मणः प्रकारमितिशब्देन परामृश्य तत्सर्वे प्रतिविध्य सर्वविशेषाधिष्ठानं सन्मात्रमेव ब्रह्म; विशेषास्त्वेवंविधं स्वस्वरूपमजानता ब्रह्मणा कल्पिता इति दर्शयति ; अतः कथमुभयलिङ्गत्वं ब्रह्मण इति-अत्राह
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृतैतावत्त्वं हि प्रतिषेधति ततोब्रवीति च
भूयः । ३ । २।२१॥
१. बृ. ४-३-१ ॥२. ४-३-६ ॥
For Private And Personal Use Only