SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३४ श्रीशारीरकमीमांसाभान्ये [अ. ३. तवतलावस्थितोऽपि निर्दोष इति शास्त्रेषूपमा क्रियते - १ " आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैको हानेकस्था जलाधारेष्विवांशुमान् । एक एव हि भूतात्मा भूतेभूते व्यवस्थितः । एकधा बहुधाचैव दृश्यते जचन्द्रवत्" इत्यादिषु ॥ १८ ॥ अब चोदयति— Acharya Shri Kailassagarsuri Gyanmandir अम्बुवदग्रहणात्तु न तथात्वम् । ३ । २ । १९ ॥ तुशब्दवोद्यं द्योतयति । अम्बुवदिति सप्तम्यन्तात् वतिः । अम्बुदर्पणादिषु यथा सूर्यमुखादयो गृह्यन्ते; न तथा पृथिव्यादिषु स्थानेषु परमात्मा गृह्यते । अम्ब्वादिषु हि सूर्यादयो भ्रान्त्या तत्रस्था इव गृशन्ते, न परमार्थतस्तत्त्रस्थाः । इह तु २" यः पृथिव्यां तिष्ठन् ” २" योऽप्सु तिष्ठन् " २"य आत्मनि तिष्ठन्" इत्येवमादिना परमार्थत एव परमात्मा पृविव्यादिषु स्थितो गृह्यते । अतस्तूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गtaara स्थित्यभावादेव । अतो न तथात्वं - दाष्टन्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थः ॥ १९ ॥ परिहरति वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च । ३ । २२० ॥ पृथिव्यादिस्थानान्तर्भावात्स्थानिनः परस्य ब्रह्मणः स्वरूपतो गुणतश्च पृथिव्यादिस्थानगतदृद्धिहासादिदोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निवर्त्यते । कथमिदमवगम्यते । उभयसामञ्जस्यादेवम् उभयदृष्टान्तसामञ्जस्यादेवमिति निश्चीयते। “आकाशमेकांहि यथाघटादिषु पृथग्भवेत् "१" ज. लाधारेष्विवांशुमान्" इति दोषवत्स्वनेकेषु वस्तुषु वस्तुतोऽवस्थितस्या १. याज्ञवल्क्य. प्रायश्चित्त, अध्यात्मप्र १४४॥ —–२ - ५-७-३, ४, २२ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy