________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
श्रीशारीरकमीमांसाभाष्ये [अ. ३. नैतदुपपद्यते-यड्रह्मणः प्रकृतविशेषवत्त्वं १" नेतिनेति" इति प्रतिषिध्यत-इति, तथा सति भ्रान्तजल्पितायमानत्वात् । न हि ब्रह्मणो विशेषणतया प्रमाणान्तरामज्ञातं सर्व तद्विशेषणत्वेनोपदिश्य पुनस्तदेवानुन्मत्तः प्रतिषेधति । यद्यपि निर्दिश्यमानेषु केचन पदार्थाः प्रमाणान्तरप्रसिद्धाः; तथापि तेषां ब्रह्मणः प्रकारत्वमप्रज्ञातमेव, इतरेषां तु स्वरूपं ब्रह्मणः प्रकारत्वं चाज्ञातम् । अतस्तेषामनुवादासम्भवादनवोपदिश्यन्ते। अतस्तनिषेधो नोपपद्यते । यस्मादेवं, तस्मात्प्रकृततावत्त्वं ब्रह्मणः प्रतिषेधतीदं वाक्यम् । ये ब्रह्मणो विशेषाः प्रकृताः । तद्विशिष्टतया ब्रह्मणः प्रतीयमानेयत्ता १ "नेतिनेति" इति प्रतिषिध्यते । नेतिनेति-नैवं नैवम् , उक्तप्रकारमानविशिष्टं न भवति ब्रह्म ; उक्तप्रकारविशिष्टतया या ब्रह्मण इयत्ता प्रकृता ; साऽत्र इतिशब्देन परामृश्यत इत्यर्थः । यतश्व निषेधानन्तरं ब्रह्मणो भूयो गुणजातं ब्रवीति, अतश्च प्रकृतविशेषणयोगित्वमात्रं ब्रह्मणः प्रतिषेधति । ब्रवीति हि भूयो गुणजातं-१"न होतस्मादितिनेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्यसत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्" इति । अयमर्थः-इति नेति यहह्म प्रतिपादितम् , तस्मादेतस्मादन्यद्वस्तु परं नास्ति ; ब्रह्मणोऽन्यत् स्वरूपतो गुणतश्योत्कृष्टं नास्तीत्यर्थः। तस्य च ब्रह्मणः सत्यस्य सत्यमिति नामधेयम् । तस्य च निर्वचनं १"प्राणा वै सत्यं तेषामेष सत्यम्" इति । प्राणशब्देन प्राणसाहचर्याज्जीवाः परामृश्यन्ते; ते तावत्सत्यम् , वियदादिवत्वरूपान्यथाभावरूपपरिणामाभावात् तेषामेष सत्यम्-तेभ्योऽप्येष परमपुरुषस्सत्यम् , जीवानां कर्मानुगुण्येन ज्ञानसङ्कोचविकासौ विद्यते ; परमपुरुषस्य त्वपहतपाप्मनस्तौ न विद्यते; अतस्तेभ्योऽप्येष सत्यम्। अतश्चैवं वाक्यशेषोदितगुणजातयोगात् १" नेतिनेति" इति ब्रह्मणस्सवि
१. १. ४-३-६ ॥
For Private And Personal Use Only