________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] उभयलिङ्गाधिकरणम्.
२३१ वश्यानां तु कर्मखभावानुगुण्येन परमपुरुषसङ्कल्पादेकमेव वस्तु कालभेदेन पुरुषभेदेन च सुखाय दुःखाय च भवति ; वस्तुखरूपप्रयुक्ते तु ताद्रप्ये सर्व सर्वदा सर्वस्य सुखायैव दुःखायैव वा स्यात् । नचैवं दृश्यते; तथाचोक्तं-१ "नरकवर्गसंज्ञे वै पापपुण्ये द्विजोत्तम । वस्त्वेकमेव दु:खाय सुखायेागमाय च। कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः। तदेव प्रीतये भूत्वा पुनदुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते । तस्मादःखात्मकं नास्ति न च कंचित्सुखात्मकम्" इति । अतो जीवस्य कर्मवश्यत्वात्तत्तत्कर्मानुगुण्येन तत्तद्वस्तुसम्बन्ध एवापुरुषार्थस्स्यात् परस्य तु ब्रह्मणः स्वाधीनस्य स एव सम्बन्धस्तत्तद्विचित्रनियमनरूपलीलारसायैव स्यात् ॥ १२ ॥
अपिचैवमेके।३।२।१३॥ अपिच एके-शाखिनः एकस्मिन्नेव देहसंयोगे जीवस्यापुरुषार्थ परस्य तु तदभावं नियमनरूपैश्वर्यायत्तदीप्तियोगं च स्वशन्देनाधीयते-२"दा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखनाते । तयोरन्यः पिप्पलं खाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" इति ॥
अथ स्यात्-३"अनेन जीवेनाऽत्मनाऽनुमविश्य नामरूपे व्याकरवाणि"इति ब्रह्मात्मकजीवानुप्रवेशपूर्वकं नामरूपव्याकरणमिति ब्रह्मणोऽ. पि तदात्मभूतस्य देवमनुष्यादिरूपत्वं तन्नामभाक्त्वंचास्ति, ततश्च ४ "ब्रामणो यजेत" इत्यादिविधिनिषेधशास्त्रगोचरत्वेन कर्मवश्यत्वमवर्जनीयमितिः तत्राहअरूपवदेव हि तत्प्रधानत्वात्।३।२।१४॥
देवादिशरीरानुप्रवेशे तेन रूपेण युक्तमप्यरूपवदेव तत्-ब्रह्म-रूप१. वि. पु.२-६. ४६-४७-४८॥-२. मु. ३.१-१॥--३. छा. ६-३-२॥४॥
For Private And Personal Use Only