________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
भीशारीरकमीमांसामाग्ये दिवचनात् तत्रतत्रावस्थितस्य तत्तत्सम्बन्धरूपापुरुषार्थास्सन्ति-इति ॥
--(सिद्धान्तः).-..एवं प्राप्ते प्रचक्ष्महे-न स्थानतोऽपि परस्य-इति । न पृथिन्यास्मादिस्थानतोऽपि परस्य ब्रह्मणः अपुरुषार्थगन्धस्सम्भवति । कुतः ? उभयलिङ्ग सर्वत्र हि-यतः सर्वत्र श्रुतिस्मृतिषु परं ब्रह्म उभयलिङ्गम् उभयलक्षणमभिधीयते, निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वलक्षणोपेतमित्यर्थः । १“अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" २"समस्तकल्याणगुणात्मकोऽसौ खशक्तिलेशाद्धतभूतसर्गः" "तेजोवलैश्चर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र लेशादयस्सन्ति परावरेशे" ३" समस्तहेयरहितं विष्णाख्यं परमं पदम्" इत्यादिश्रुतिस्मृतिभ्यः उभयलक्षणं हि ब्रह्मावगतम् ।। ११ ।। भेदादितिचेन्न प्रत्येकमतद्वचनात्। ३।२।१२।
यथा जीवस्य प्रजापतिवाक्यावगतापहतपाप्मत्वाद्युभयलिङ्गस्यापि देवादिदेहयोगरूपावस्थाभेदादपुरुषार्थयोगः, तथाऽन्तर्यामिणः परस्यापि स्वतोऽपहतपाप्मत्वाद्युभयलिङ्गस्य तत्तद्देवादिशरीरयोगरूपावस्थाभे. दादपुरुषार्थयोगोऽवर्जनीय इति चेत्-तन्त्र, प्रत्येकमतद्वचनात्-"यः पृथिव्यां तिष्ठन्" ४“य आत्मनि तिष्ठन्" इत्यादिषु प्रतिपर्यायं ५“सत आत्माऽन्तर्याम्यमृतः" इत्यन्तर्यामिणोऽमृतत्ववचनेन तत्रतत्र स्वेच्छया नियमनं कुर्वतस्तत्तत्सम्बन्धप्रयुक्तापुरुषार्थप्रतिषेधात् । जीवस्य तु तत्वरूपं तिरोहितमिति ६" पराभिध्यानातु तिरोहितम्" इत्यत्रोक्तम् । ननु खेच्छया कुर्वतोऽपि तत्तद्वस्तुस्वभावायत्तापुरुषार्थसम्बन्धोऽवर्जनीय इ. त्युक्तम् । नैतद्युक्तम् , नाचिद्वस्त्वपि खभावतोऽपुरुषार्थवरूपम् । कर्म
१.ग. ८.१-५ ॥-२. वि. पु. ६.५.८४, ८५ ॥-३. वि. पु १-२२-५३ ॥ -४. .. ५-७-३, २२ ॥-५ पृ. ५-७-३, २३ ॥-६. शारी. ३-२-४॥
For Private And Personal Use Only