________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२९
पा.२.
उभयलिझाधिकरणम्. ला, न च गतप्राणा, आकारबैलमण्येन सूक्ष्मप्राणास्तित्वावगतः मूर्षितस्यैष कस्यचित्पुनर्जीवन दर्शनाव न मरणमिति परिशेषान्मरणायाधसम्पत्तिरित्यवगम्यते ॥१०॥
___ इति वेदान्तदीपे मुग्धाधिकरणम् ॥ ४ ॥ ---(श्रीशारीरकमीमांसाभाष्ये उभयलिङ्गाधिकरणम् ॥ ५॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि।३।२।११
दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषा निरूपिताः, इदानी ब्रह्ममाप्तिवृष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकस्वप्रतिपादनायारभते । तत्र जागरस्वमसुषुप्तिमुग्ध्युत्क्रान्तिषु स्थानेषु तचत्स्थानप्रयुक्ता जीवस्य ये दोषाः, ते तदन्तर्यामिणः परस्य ब्रह्मणोऽपि तत्रतत्रावस्थितस्य सन्ति, नेति विचार्यते । किं युक्तम् सन्तीति। कुतः? तत्तदवस्थशरीरेऽवस्थानात् । ननु “सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्" २"स्थित्यदनाभ्यांच" इत्यादिषु परस्याकर्मवश्यत्वेन दोषाभाव उक्तः,तकथमकर्मवश्यस्य परस्य ब्रह्मणस्तत्तत्स्थानसम्बन्धादोष उच्यते; इत्थमुच्यते-कर्माण्यपि देहसम्बन्धमापादयन्त्यपुरुषार्थजननानि भवन्ति-इति ३"देहयोगाद्वा" इत्यत्रोक्तम् तच्च देहसम्बन्धस्यापुरुषार्थत्वेन भवति इतरथा कर्माण्येव दुःखं जनयिष्यन्तिाकि देहसम्बन्धेन; अतोऽकर्मवश्यत्वे सत्यपि नानाविधाशुचिदेहसम्बन्धोऽपुरुषार्थ एव अतस्तनियमनार्थ खे. छया तत्प्रवेशेऽप्यपुरुषार्थसम्बन्धोऽवर्जनीयः, पूयशोणितादिमजनं हि खेच्छाकारितमप्यपुरुषार्थ एव । अतो यद्यपि जगदेककारणं सर्वज्ञत्वादिकल्याणगुणाकरं च ब्रह्म, तथापि ४“यः पृथिव्यां तिष्ठन्" "य आत्मनि तिष्ठन्" ४" यश्चक्षुषि तिष्ठन्" "यो रेतसि तिष्ठन्" इत्या
१. शारी. १-२-८ ॥-२ शारी. १.३.६॥-३. शारी. ३-२.५ ॥-४... ५७-१, २२, १८, २३॥
For Private And Personal Use Only