________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
पेदान्तदीपे न्यायातम् ॥९॥
इति वदान्तदीपे कर्मानुस्मृतिशन्दविध्यधिकरणम् ॥ ३॥
(श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम् ॥४॥)---
मुग्धेऽर्धसम्पत्तिः परिशेषात् । ३।२।१०॥
मुग्धमधिकृत्य चिन्त्यते; किमियं मूर्छा सुषुप्तयादिष्वन्यतमावस्था, उतावस्थान्तरमिति विशये सुषुप्तयादीनामन्यतमावस्थायामेव ममिसिरयुपपत्तेरवस्थान्तरकल्पने प्रमाणाभावादन्यतमावस्था
. - सिद्धान्तः)--- इति प्राप्त उच्यते-मुग्धेऽर्धसम्पत्तिः-इति । मुग्धे पुरुषे या तस्यावस्था, सा मरणायाधसम्पत्तिः । कुतः परिशेषाव-नतावत्वमजागरौ, शानाभावात: निमित्तवैरूप्यादाकारवैरूप्याच्च न सुषुप्तिमरणे । निमित्त हि मूर्छाया अभिघातादिः। पारिशेष्यान्मरणायाधसम्पत्तिर्मुर्छा। मरणं हि सर्वपाणदेहसम्बन्धोपरतिः सूक्ष्मप्राणदेहसम्बन्धावस्थितिमा ।
इति श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम् ॥ ४ ॥
वेदान्तसारे-मुग्धेऽर्धसम्पत्तिः परिशेषात् ।। मूञ्छिते पुरुषे या अवस्था,सा मरणायार्धसम्पत्तिरिति हेतुभेदात्, आकारभेदात्, अपुनरुत्थाननियमाभावाचवायते ॥१०॥
___ इति वेदान्तसारे मुग्धाधिकरणम् ॥ ४ ॥
वेदान्तदीपे-मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ कि मूर्छा मरणादथान्तरम् , उत मरणमेवेति संशयः। सर्वेन्द्रियप्राणव्यापारोपरतेः मरणमेवे. ति पूर्वः पक्षः कारवैरूप्येण सूक्ष्मप्राणास्तित्वावगतः मरणायार्धसम्पत्तिरित ति सिद्धान्तः । सूत्रार्थस्तु-मुग्धे मूञ्छित पुरुषे याऽवस्या, सा मरणायाऽर्ध. सम्पत्तिः। कुतः १ परिशेषात् । प्राणादिसर्वव्यापारोपरते न जागरायण
For Private And Personal Use Only