________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] कर्मानुस्मृतिशब्दविष्यधिकरणम् . २२७ मोक्षार्थास्सुषुप्तस्य मुक्तत्वेऽनर्थकारस्युः । नचासौ सर्वोपाधिविनिर्मुक्त आविर्भूतस्वरूपः- "तयनैतत्सुषुप्तः" इति सुषुप्तं प्रकृत्य १"नाह खल्व. यमेवं सम्पत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि" इति वचनात् । मुक्तस्य च २"परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते" ३"स तल पर्येति जक्षस्क्रीडब्रममाणः" ४"स स्वराइभवति तस्य सर्वेषु लोकेषु कामचारो भवति" ५"सर्व ह पश्यः पश्यति सर्वमामोति सर्वशः" इति सर्वज्ञत्वादिः श्रूयते । अतस्सुषुप्तस्संसरन्नेव आयस्तसर्वकरणो ज्ञानभोगायशक्तो विश्रमस्थानं परमात्मानमुपसम्पद्याश्वस्तः पुनर्भोगायोत्तिष्ठति ॥ ९॥
इति श्रीशारीरकमीमांसाभाष्ये कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥ ३ ॥
वेदान्तसारे स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ सता सम्पनोऽपि सुप्त एव प्रबुद्ध उत्तिष्ठति, ज्ञानवैधुर्येण कृतस्य कर्मणस्तेनानुभा. व्यत्वात् , पूर्वानुभूतप्रत्यभिज्ञानात् , ६"त इह व्याघ्रो वा' इत्यादि-६"यद्यद्भवन्ति तथा भवन्ति" इति शब्दात् , मोक्षोपायविध्यानर्थक्याच ॥९॥
___ इति वेदान्तसारे कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥ ३ ॥
वेदान्तदीपे–स एव तु कर्मानुस्मृतिशब्दविधिभ्यः॥ किं सुषु. त एव प्रबोधकाले उत्तिष्ठति ? स एव वा अन्यो वेत्यनियम इति संशयः। सु. षुप्तस्य सर्वोपाधिविनिर्मुक्तस्य ब्रह्मणि सम्पन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरसम्बन्धाभावात्स एवेति नियमो न सम्भवतीति पूर्वः पक्षः। सुषुप्तस्य ब्रह्मज्ञानाभावेन पूर्वकृतस्य कर्मणः तेनैवोपभोक्तव्यत्वात् , सोऽहमिति प्रत्यभिशानात् , ७"त इह व्याघ्रो वा सिंहो वा" इत्यारभ्य ७“यद्यद्भवन्ति तथा भवन्ति" इति शब्दात् , मोक्षसाधनविध्यानर्थक्याच स एवोत्तिष्ठतीति राधान्तः। न चासौ शरीरेन्द्रियसम्बन्धविनिर्मुक्तः, अपि तु करणकलेबरप्र. वर्तनायासादाश्वसाय ब्रह्मण्यपीतः पुनराश्वस्तः प्रवर्तनायोत्तिष्ठति । सूत्रमपि
१. छा. ८.११.२॥ २. छा. ८.३-४ ॥ ३. छा. ८-१२-३॥-४.छा. ७. २५-२॥-५... ७-२६-२॥-६. डा. ६.१०.२॥
For Private And Personal Use Only