________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२६
श्रीशारीरकमीमांसाभाष्ये
[अ. ३
वेदान्तदीपे - तदभावो नाडीषु तच्छ्रुतेरात्मनि च । नाख्यः पुरीतत् ब्रह्म च सुषुप्तिस्थानत्वेन श्रूयन्तेः किमेषां विकल्पः, उत समुच्चय इति संशयः । विकल्प इति पूर्वः पक्षः - १" आसु तदा नाडीषु सृप्तो भवति " २ "ताभिः प्रत्यवसृप्य पुरीतति शेते" ३ "सता सोम्य तदा सम्पन्नो भवति" इति त्रयाणां नैरपेक्ष्यप्रतीतेः । राद्धान्तस्तु - प्रासादखट्वापर्यङ्कवत् कार्यभेदेन समुच्चये सम्भवति पाक्षिकबाधगर्भविकल्पो न युक्त इति समुचयो न्याय्यः । तत्र पर्यङ्कस्थानीयं ब्रह्म, यतः पर्यङ्कवत्साक्षाद्रह्म सुषुप्तिस्थानम् । सूत्रार्थस्तु तदभावः स्वप्नाभावः सुषुप्तिरित्यर्थः । सुषुप्तिः नाडीष्वात्मनि च चकारात्पुरीततिचः तच्छ्रुतेः प्रयाणां सुषुप्तिस्थानत्वश्रुतेः । उक्तेन न्यायेन समुचयो न्याय्य इत्यभिप्रायः ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अतः प्रबोधोऽस्मात् || अस्मात् ब्रह्मणः प्रबोधश्रुतिरत एवोपपद्यते ; ४ "सत आगम्य न विदुरसत आगच्छामहे” इति श्रूयते ॥ ८ ॥ इति वेदान्तदीपे तदभावाधिकरणम् ॥ २ ॥
( श्री शारीरकमीमांसाभाष्ये कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥ ३ ॥ )
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ३ । २ । ९ ॥
किं सुषुप्त एव प्रबोधसमये उत्तिष्ठति, उतान्य इति संशये अस्य सकलोपाधिविनिर्मुक्तस्य ब्रह्मणि सम्पन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरेन्द्रियादिसम्बन्धाभावादन्यः --
(सिद्धान्त:),
इति प्राप्त उच्यते स एव तु इति । तुशब्दः पक्षं व्यावर्तयतिः स एवोत्तिष्ठतिः कुतः कर्मानुस्मृतिशब्दविधिभ्यः । कर्म तावत् - सुषुप्तेन पूकृतं पुण्यपापरूपं तत्वज्ञानात्प्राक्तेनैव भोक्तव्यम् । अनुस्मृतिरपि य एवाहं सुप्तः, स एव प्रबुद्धोऽस्मीति । शब्दोऽपि सुषुप्तप्रबुद्धस्सएवेति दर्शयति - ४" त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा देशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति" इति । विधयथ
१. छा. ८-६-३ ॥ २. बृ. ४-१-१९॥
. छा. ६-८-२ ॥४. का. ६-१०-२ ॥
For Private And Personal Use Only