________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २] तदमावाधिकरणम्.
२२५ इति । तथा १" अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्त्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसप्य पुरीतति शेते " इति; तथा-२" यत्रतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पनो भवति" इति । एवं नाड्यः पुरीतद्ब्रह्म च सुषुप्तिस्था. नत्वेन श्रूयन्तेः किमेषां विकल्पः समुच्चयो वेति विशये निरपेक्षत्वमतीतेः युगपदनेकस्थानवृत्त्यसम्भवाञ्च विकल्पः
... (सिद्धान्तः) --- इति प्राप्त उच्यते-तदभावः-इति। तदभावः - स्वमाभावः-सुषुप्तिः नाडीषु पुरीतत्यात्मनि च भवति,एषां स्थानानां समुच्चय इत्यर्थः। कुतः तच्छ्रुतेः-त्रयाणां स्थानत्वश्रुतेः। न च कार्यभेदेन समुच्चये सम्भवति पाक्षिकबाधगर्भविकल्पो न्याय्यः । सम्भवति च प्रासादखट्वापर्यवन्नाड्यादीनां कार्यभेदः। तत्र नाडीपुरीततौ प्रासादखट्वास्थानीयौ । ब्रह्म तु पर्यकस्थानीयम् । अतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम् ॥७॥
अतः प्रबोधोऽस्मात् । ३।२।८॥
यतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्,अतः अस्मात् ब्रह्मणः एषां जीवानां प्रबोधः श्रूयमाण उपपद्यते-३"सत आगम्य न विदुः सत आगच्छामहे" इत्यादिषु ॥ ८॥
इति श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम् ॥ २ ॥ वेदान्तसारे-तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ स्वप्नाभावः सुषुप्तिः, "आसु तदा नाडीषु सप्तो भवति" २"सता सोम्य तदा सम्पन्नो भवति" इति श्रुतेः नाडीषु परमात्मनि१ "पुरीतति शेते" इति श्रुतेः पुरीतति च; प्रासादखटापर्यङ्कवदविरोधः ॥७॥
अतः प्रबोधोऽस्मात् ॥ ३"सत आगम्य न विदुः" इति ब्रह्मणः प्र. बोधश्रुतिः अत एव ॥ ८॥
इति वेदान्तसारे तदभावाधिकरणम् ॥ २ ॥ १.० ४.१-१९ ॥-२. छा. ६.८.१॥-३. छा, ६.१.२॥-४. . ८-६-३॥
*29
For Private And Personal Use Only